________________
देवीपुराणम्
४०५
सागरा जठरं तस्य ऋषयो रोमकूपगाः । गन्धर्वा किन्नरा यक्षाः पिशाचा दनुराक्षसाः ॥१४॥ उदरस्था तु देवस्य नद्या बाही समाश्रियः । अंगुल्यो भुजगास्तस्य नरवास्तारागणाः स्मृता ॥१५॥ हृदयस्था क्रिया देवी मेरुः पृष्ठगतो ह्यभूत् । यमो धर्मश्च नाभौ तु कण्ठे तु पृथिवी स्थिता ॥१६॥
लिगे सृष्टि दिजानीयात् अश्विनौ जानुनी स्थितौ ।
पर्वताश्चारुदेशस्थाः पातालात्मकैः स्मृता ॥१७॥ नारका भुवनास्तस्य पादस्था मुनिसत्तम । कालाग्निश्च स्वयं रुद्रः पार्दागुष्ठ समाश्रितः ॥१८॥ वेदाश्च मनवः कल्पा दिना काष्ठा कला लवाः । सर्वे तत्र व प्रष्टव्या सर्वदेवमयो हि सः ॥१६॥ एवं सर्वात्मकं दृष्ट्वा गजवाक्यन्तु विष्णुना । प्रणम्य मुदितो भक्त्या तुतोष विविधः स्तवैः ॥२०॥
___ इति श्रीदेवी पुराणे विनायकोत्पत्तिर्नाम द्वादशाधिकशततमोऽध्यायः'
१. विनायकोत्पत्तिः क ग ।