________________
द्वादशाधिकशततमोऽध्ययायः ।
वशिष्ठ उवाच ।
कोsar गजानदो देवः कथं वा समगच्छत । कथं निवारयेत् विष्णुमेतदिच्छामि वेदितुम् ॥ १ ॥
मनुरुवाच यद्द ुर्लभं भवेदण्ड' हेमजं क्षितिभूषणम् । लोके मेरु समाख्यातः तस्य पूर्वेण भूधरः ॥ २ ॥ मालव्यो नाम विख्यात ऋषिदेवनिषेवितः | सिद्ध किन्नरगन्धर्वे प्रसरोणगसेवितः ॥३॥ नानाद्रुमलताकीर्णः फलपुष्पसमावृतः I सरित्सरोवराकीर्ण दीर्घिकानदमालितः ॥४॥ हंसकारण्डवचक्र जीवं जीवकनादितः । बहुपक्षिसमाघुष्टो प्रतिरम्यो मनोहरः ॥५॥ तस्मिन् पर्वतराजेन्द्र पीतवासा जगत्पतिः । सत्त्वात्मको महामायो जगतां पतिः केशवः ॥६॥ स्थित्यर्थं मतिमाधाय स्थितो विग्रहरुपिणः । सदा रतिमुदायुक्तः क्रीडमानः क्रिया सह ॥ ७ ॥ तावत् तत्र क्रिया शक्ति ह्यनन्त प्रभवो महान् । विग्रहीभूत देवेच्छा समाययुस्तपं प्रति ॥८॥ सा विद्या वेदभावेन महत्तपः समास्थिता । विष्णुना च समास्थाय प्रवृत्यैवं व्यवस्थिता ॥ ॥ तदा तस्यामभवद्भावो राजसः परमेच्छया । पाणौ संमन्थयित्वा तु नरकाय गजाननम् ॥१०॥ सत्त्वोद्रिक्तं सृजेदेवं सर्वदेवमयं विभुम् । चन्द्रादित्यानलो नेत्रो ब्रह्मा चैव शिरो वाहु ॥ ११ ॥ केशा वनस्पतिस्तस्य रुद्रा ग्रीवासमाश्रिता । दशनाग्रहनक्षत्रा धर्मा धर्मे तु श्रोष्ठयोः ॥१२॥ जिह्वा सरस्वती तस्य श्रोत्र चैवे दिशो दश । इन्द्रो नासागतस्तस्य भ्रर्वोर्मध्ये हरः स्मृतः ॥१३॥
१. यथा हितस्य दण्ड़े क ख ।
३. मानव्यो ग ।
५. विष्णुना नर्मममास्थाय प्रावृतेव तु व्याकृता क ।
२. लोकालोकः ख ।
४. देवाद्या ग ।
६. स्वयम् क ग ।