SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥ अथ देवीपुराणम् ॥ ॥ श्रीगणेशाय नमः ॥ प्रथमोऽध्यायः । ओं नमश्चण्डिकायै'। नारायणं नमस्कृत्य नरञ्चव नरोत्तमम् । . देवी सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ नमस्कृत्य शिवां देवी सर्वभागवतां शुभाम् । पुराणं सम्प्रवक्ष्यामि यथोक्तं ब्रह्मणा पुरा ॥१॥ __ ऋषय ऊचुः । भगवंस्त्वं समस्तस्य दृष्टादृष्टस्य तत्त्ववित् । पुराणार्थ वयं सर्वे आगता भुवि भाविताः ॥२॥ कथ्यतां यत्र घोराद्या भूताः साम्प्रतदानवाः । भविष्याश्च विनाशिष्ये देवी देवनमस्कृता ॥३॥ इन्द्रस्य च दिवः प्राप्तिह तराज्यस्य दानवैः । यथा शक्रो जयं' चक्र देवदेवनमस्कृतः ॥४॥ अवतारा मुनिश्रेष्ठ षष्ठिभेदगता यथा । पूजयेत् स पृथु राजा देवी सर्वार्थसाधनीम् ॥५॥ यथा मातृसमुत्पती रुरोनाशो महात्मनः । चामुण्डा येन वा देवी येन वा सर्वमङ्गला ॥६॥ निरुक्तानि च नामानि वह्न सन्तर्पणं यथा । वसुधाराविधिस्तात देवतास्थापनादिकम् ॥७॥ यत्र मायो महामायो निहतो रामसायकैः। यत्र संस्थापिता देवी बहुधा वसुधातले ॥८॥ स्तोत्राणि च विचित्राणि शिवाद्यः शुभहेतुभिः । कृतानि बहुभेदानि तथा माहात्म्यवर्णना ॥६॥ शिवस्य च तथा स्तोत्रं यामलं विष्णुब्रह्मगोः । कृतं लोकोपकाराय शुक्रेण च महास्तवम्॥१०॥ १. ग-पुस्तके अस्ति । पाण्डुलिपि-लेखकेन च 'पोउम्' इति लिखितम् । । २. क-चिन्हित पुस्तके नास्ति । ग-पुस्तकेऽपि नास्ति । तथा- नमस्कृत्य जगन्मात्र कुम्भयोनिप्रियाश्रिये । इत्यधिकः पाठः । ३. यथोत्तमृषिभिः क, ग चिह्वितपुस्तके ४. भाव --क, ग। ५.शक्रोच्छय-ख, ग । ६. तथा-क। ७. सर्वाणि-ग। ८. तथा-कग ९. विधिस्तात-ख, ग। १०. यथा-क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy