SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् रथयात्रादयः पुण्याः कथा पापप्रणाशणीः ' । खट्वावधं महाघोरं मायकोत्पत्ति कीर्त्तनम् ॥११॥ कीर्त्तनं विघ्ननाशस्य' यागादिभिः समर्चनम् । महाशान्तिविधानञ्च पुष्पाद्यैरभिषेचनम् ||१२|| वीक्ष्य शक्रस्य यञ्चक्रे गुरुकाम प्रसाधनम् । नानासदानि दुर्गाणि शिल्पानि विविधानि च ॥१३॥ यत्र सङ्कीर्त्तयेद् ब्रह्मा मन्वादीनां प्रपृच्छताम् । वर्णाश्रम स्थितिर्यत्र अाचारस्य च कीर्त्तनम् ॥१४॥ कीर्त्तनं यत्र देवानां साङ्ख्यमाहात्म्यवर्णनम् । यत्र मृत्युग्रहादित्यग्रस्ता अवान्तरे नृपाः ॥ १५ ॥ अर्ध्या सर्वेश्वरी पूर्व शक्रादिभिर्यथा नुता । वृत्राघशमनी तात भूमिशुद्धिकरी परा ॥१६॥ हरिश्चन्द्रादयः स्वस्था भूता देवीप्रसादतः । à 3 माण्डव्यो मुनिशार्दूलो यत्र पूजयते शिवाम् । यत्रायुर्वेदसंसिद्धि धन्वन्तरिरवाप्तवान् ॥१७॥ प्रादुर्भावस्तथा विष्णोर्व्रताश्च नियमादयः । वेदव्रतानि यज्ञानां कथनं साधनं तथा ॥ १८ ॥ ग्रहाणाञ्च गतिश्चोर्ध्व चक्रचारानुकीर्तनम् । संस्थानं संस्थितिर्यत्र नागानां तलवासिनाम् ॥१६॥ कालसङ्ख्याप्रमाणन्तु युगभेदप्रकीर्त्तनम् । लोकेषु शब्दसङ्ख्यानं' 'शुभाशुभ विवेचनम् ३ ॥२०॥ पदमालाविधिः पुण्यः सम्बन्धो योगकीर्त्तनम् । प्रत्यक्षाणि च लक्ष्याणि योगिनां सुखसिद्धये । २१ । ध्वजदानप्रसङ्ग ेन पुष्पाणि विविधानि च । दानभेदा महापुण्या विद्यादानं तथोत्तमम् ॥ २२॥ व्रतानि चोपवासाश्च यमाश्च नियमास्तथा । जलेन १४ स्थापनं देव्याः प्रासादवलयादिषु ॥ २३॥ ग्रहभेदगता पूजा शान्तो प्रविधिना यथा । साधते १६ सर्वकार्याणि तथा नो वक्तुमर्हसि ॥ २४ ॥ समस्तव्यस्तभेदेन क्रमाचारानुलोमतः १७ । यथाबुद्धिस्तथा तत्त्वं युगकालानुरूपतः ॥ २५ ॥ यथा प्रसीदते देवी श्रात्म भावानुरूपतः । कर्म - यज्ञ - विधानेन तथा कथय सुव्रत ॥ २६ ॥ एवं पृष्टस्तु तैः सर्वैर्वसिष्ठो मुनिसत्तमैः । यथा - न्याय - विधानज्ञः श्रूयतामिदमब्रवीत् ॥२७॥ २ 13 5 १. प्रणाशनाः क ग २. विघ्नराजस्य - ग ३. ऋक्षे- क ग । ४. नानास्पदान —क, नानास्पदानि । ५. वेदानां । ६. प्लुता क । ७. वृत्राघश मनी - ख । ८. स्वः स्था:-क । १०. प्रमारणञ्च क । ६. रवाप्नुयात् ख । ११. लोकेषष्ठयब्दसंस्थानं शुभाशुभविवेचकम् क, शेवेत्यसं इत्यपि पाठः ख, चिन्हित पुस्तकस्य पाठान्तरे । १२. पद्यमिदं ग - पुस्तके नास्ति । १४. चालनं ग क । १३. सम्बन्धं ग । १५. प्रसादेन नयादिषु - ख । १६. साधने - | १७. क - पुस्तके कमाचारान् इत्यतः यज्ञविधानेन इति यावत् पाठो नास्ति क्रमवाचा ग।. १८. यथा बुद्धि यथातत्त्वं ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy