SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् ३६५ शकटर्बलिवश्च स्वतो' गत्वा न युज्यते । तथा प्रधानपुसाद्यामन्यो योक्ता विधीयते ॥३२॥ सा च शक्तिः शिवस्योक्ता चचिकाद्या महामुने । द्रष्टव्या सर्वविद्यासु शृणु वेदविदावर ॥३३॥ येषामेव हि भावाना संपत्संजनयेन्नरः । तेषामेव विपद्व्याधोन् विविधान् समुदीरयेत् ॥३४॥ अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयम् । भगवन् ! सम्पन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानाञ्च रोगानां किममिवृद्धि कारणमिति ॥३५॥ - भगवान् पात्रेय उवाच । हिताहारोपयोग एव पुरुषस्याभिवृद्धि करो भवेत् । अहिताहारोपयोगः पुनाधिकरो भवेत् ॥३६॥ ___ एवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच । कथमिदं भगवन् हिताहितानामाहारजातानां लक्षणमनपवाद मभिजानीयामो वयम् । हितसमाख्याताना चैवाहारजातानामहितसमाख्याताना च मात्रा-काल-क्रिया-भूमिदेह-दोष पुरुषोऽवस्थान्तरेषु विपरीतकारित्वमुपलभामहे इति ॥३७॥ इति श्री देवीपुराणे आयुर्वेदोपोद्घातो नामाष्टाधिकशततमोऽध्यायः । १. मनो ग । ३. अनपबर्ग क ग । २. एक एव क ग । . ४. आयुर्वेदोत्पत्तिः क ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy