________________
३६४
अष्टाधिकशततमोऽध्यायः
रजसानि तु भूतानि व्याधयश्च पृथग्विधाः । प्रापो हि रसवत्यस्ताः स्मृता निवृत्तिहेतवः ॥ १४॥ हिरण्याक्षस्तु नेत्याह न ह्यात्मा रजसः स्मृतः । नातिन्द्रियं मनः सन्ति रोगा शब्दादिजास्तथा ॥ १५ षड्धातुजस्तु पुरुषो रोगा षड्धातुजास्तथा । राशिः षड्धातुजो ह्येष सांख्यं राद्यं : परीक्षितः ॥ १६ ॥ तथा ब्रुवानं कुशिकमाह तमेति शौनक । कस्मात् मातापितृम्यां हि विना षड्धातुजो भवेत् ॥१७॥ पुरुषः पुरुषादे गर्गोरखादश्वः प्रजायते । पंत्र्यौ मेहादयश्चोक्ता रोगास्तु एव कारणम् ॥१८॥ भद्रकाप्यस्तु नेत्याह न शक्तोऽशक्तात् प्रजायते । मात्रापित्रोश्च ते पूर्वमुत्पत्तिर्नोपयद्यते ॥१६॥ कर्मजस्तु मतो जन्तुः कर्म जास्तस्य चामयाः । न ह्यते कर्मणा जन्म रोगानां पुरुषस्य च ॥२०॥ भरद्वाजस्तु नेत्याह कर्त्ता पूर्वं हि कर्मणः । दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम् ॥२१॥ भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च । खरद्रव चलोत्पत्त्वं तेजोहन्तानां यथैव हि ॥ २२ ॥ कात्यायनस्तु नेत्याह न ह्यारम्भः फलं भवेत् । भवेत् स्वभावाद्भावानामसिद्धः सिद्धिरेव वा ॥२३॥ स्रष्टो त्वमतिसंकल्पो ब्रह्मापत्यं प्रजापतिः । चेतना चेतनस्यास्य जगतः सुखदुःखयो ॥ २४॥ तन्नति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः । प्रजाहितैषी सततं दुखैर्युज्यादसाधुवत् ॥२५॥ कालजस्त्वेन पुरुषः कालजास्तस्य चामया । जगत् कालवशं सर्वं कालः सर्वत्र कारणम् ॥२६॥ विवदतामुवाचेदं तथर्षीणां पुनर्वसुः । मैवं वोचत तत्त्वं हि दुष्प्राप्यं पक्षसंश्रयात् ॥ २७॥ वादान् सम्प्रतिवादांश्च वदन्तो निष्चितानिव । पक्षान्तं नैव गच्छति तिलपीडकवदगतौ ॥ २८ ॥ मुक्त्वे नं वादसंवर्ष मध्यात्ममनुचिन्त्यताम् । नाविधूते तमक्षेपे ज्ञानमेतद् प्रवर्त्तते ॥२६॥ कर्म वाचेतनोऽमूर्तेः प्रकृतमूर्त्तेऽस्थचेतन । पुरुषोऽचेतनोऽमूर्त्तो रसाद्याः सर्वचेतनाः ॥३०॥ कालो नित्योदितोऽमूर्त्तः स च हेतुः कथं भवेत् । न हि श्रात्मानं दुःखाद्य : प्रक्षापूर्व समाचरेत् ॥ ३१ ॥
१. न हि मातापितृभ्यां हि विनाशित्वा भुजो भवेत् क ग ।
२. तत्र काव्यस्तु नेत्यादे न ह्यर्धोऽर्थं प्रजायते क ग ।
३. चलोष्ठत्वं ग ।
५. दुःखदुखाद् असाधुवत् क ग । ७. अनुचिन्तितम् ।
४. पृष्टत्वाम् ग ।
६. चाशयाः क ।
८. न बिबृत्ते तमस्कंदे क्षेपे ज्ञानं प्रबर्त्तते क ग ।