________________
अष्टाधिकशततमोऽध्यायः ।
मनुरुवाच । षडंगानीह वेदानां मया ज्ञातानि पूर्वशः । चातुर्वण्यहितार्थाय उपांगं मम कथ्यताम् ॥१॥
ब्रह्मोवाच ।
उपागांनां च अंगांनामायुर्वेदं वरं विदुः । धर्मार्थकाममोक्षानां स चापि फलदायकः ॥२॥ ज्योतिः शास्त्रं द्वितीयन्तु दृष्टादृष्टप्रसाधकम् । तस्मात् तदुच्येत विप्र संक्षेपादवधारय ॥३॥ पुरा कैलाशशिखरे भगवन्तं पुनर्वसुम् । उपासतां महर्षीनां प्रादुरासीदियं कथा ॥ ४ ॥ प्रात्म.न्द्रियमनोऽर्थानां योऽयं पुरुषसंज्ञकः । शशि' वस्यामयानाञ्च प्रागुत्पत्ति विनिश्चये ॥ ५ ॥ तदन्तरं काशिपतिर्वामको वाक्यमर्थवत् । व्याजहार ऋषिमिति अभिसृत्याभिवाद्य च ॥ ६ ॥ किं नु भोः पुरुषो यज्ञस्तेजस्तस्यामयाः शुभा । न चेत्युक्त नरेन्द्र न प्रोवाच|न् पुनर्वसुः ॥ ७ ॥ सर्वे एवामितज्ञाना ज्ञानविच्छिन्नसंशयाः । भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम् ॥ ८ ॥ पारीक्षस्तत् परीक्ष्याने मद्गल्यो वाक्यमब्रवीत् । प्रात्मजः पुरुषोगा श्वात्मजाः कारणं हि सः ।। स चिनोत्युपभुक्त च कर्म कर्मफलानि च । न स्मृते चेतनाधातोः प्रवृत्तिः सुखदुःखयो ॥१०॥ शरलोमा तु नेत्याह न ह्यात्मानमात्मना । योजयेद् व्याधिभिदुखैः दुःखद्वेषी कदाचन ॥११॥ रजस्तमोभ्यान्तु मनः परीतं सत्त्वसंज्ञकम् । शरीरस्य समुत्पत्तौ विकाराणाञ्च कारणम् ॥१२॥
व्याधयो विदस्तु नेत्याह न ह्य कारणं मनः। नार्तशरीरं रोगाणां नराणां मनसः' स्थितिः ॥१३॥
१. परं ख। ३. अब्रवीत् ।। ५. रोगाः ख । ७. नापोचिदस्तु क।
२. काशिवस्याम् ग। ४. नज्जास् ख । ६. सवलो मारुतग। ८. नक्त शरीराच्छारीरा रोगानां मनसः स्थिति: च ।