________________
३६२
सप्ताधिकशततमोऽध्यायः
वेदानां चैव उत्पत्ति स्वरवर्ण समुद्भवा। शिवभक्ति समायोगात् तवाख्याता मया मुने ॥५७॥ यद्देवनामरूपन्तु गोत्र वेदप्रमाणजम् । वर्ण वर्णयते तात तस्य पुण्यफलं शृणु ॥५॥ यावन्ति वेदगीतानि पुण्ययज्ञ व्रतानि च । तावन्ति श्रवणादस्य प्राप्नुयात् भक्तिभावतः ॥५६॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । अविद्वान् विद्यां प्राप्नोति दुःखाद् दुःखी प्रमुच्यते ॥६०॥ पठित्वा सर्ववेदानां सम्मतो द्विजवल्लभः । भवते नात्र सन्देहो देवी च वरदा सदा ॥६१॥
इति श्री देवीपुराणे वेदोत्पत्तिस्मरणीय चरणव्यूह समाप्ति म सप्ताधिकशततमोऽध्यायः ।
३. प्राद्य वेदोत्पत्तिस्मरणीयं चरणव्यूह समाप्तम् क ग ।