________________
३६१
देवीपुराणम् अध्ययनमपि तेषां तु । अष्टौ' सामसहस्राणि सामानि च चतुर्दश ॥४१॥ अष्टौ शतानि नवतिर्दश सहस्राणि बालिखिल्याः। ससुपर्णाश्च प्रेष्याश्च एतत्सामगणं स्मृतम् ॥४२॥ अथ अथर्ववेदस्य नवभेदा भवन्ति च । पिप्पलादमोदा मोदा च भूतापनीया च तथा ॥४३॥ याहनो ब्रह्मवलो च शौनको कुनखो तथा । देव दर्शिश्चापि विद्यास्तेषामध्ययनं शृणु ॥४४॥
पञ्चकल्पा भवन्ति ।
नक्षत्रकल्पो वैतानश्च संहिताविधिः आंगिरसः । शान्तिकल्पश्च पंचते अथर्वस्य भवन्ति च ।४५॥ सर्वेषामेव वेदानामुपवेदान् शृणुस्व ते । ऋग्वेदस्यायुर्वेदो यजुर्वेदस्य धनुस्तथा ॥४६॥ सामवेदस्य गान्धर्वमर्थशास्त्रमथर्वणः । ऋग्वेदस्यात्रेयं गोत्रं सामवेदं विदुर्मुने ॥४७॥ काश्यपं यजुर्वेदन्तु रुद्रवेदन्तु तत्स्मृतम्। सामवेदोऽपि गोत्रेण भरद्वाज पुरन्दरः ॥४८॥ अधिदेवं विजानीयात् वैतानन्तु अथर्वणे। ब्रह्मदेवं विजानीयात् रूपाण्यस्माच्छृणुस्व ते ॥४६॥ ऋग्वेदः पद्मपत्राक्षः प्रलम्बजठरः सुविभक्तग्रीवः । कुंचितकेशश्मश्रुः प्रमाणेनापि वितस्तिपञ्च ॥५०॥ स राजते मौक्तिकवरोऽथ पूज्यो वरप्रदो भक्तियुते द्विजाय ॥५१॥
यजुर्वेदः पिंगलाक्षः कृषमध्यः स्थूलगलः कपोलस्ताम्रायत्तवर्णः कृष्णचरणः ॥
प्रादेशात् षड्दीर्घत्वेन लिगोऽथवा चित्रे पूज्य सर्वकामानवाप्नुयात् ॥५२॥ सामवेदो नित्यं स्रग्वी सुव्रतः शुचिः शुचीवाससः । क्षमी दान्तश्चर्म च दण्डी काञ्चननयनः ॥५३॥ आदित्यवर्णो वणेन षड्रत्नमात्रस्तथा । ताम्रऽथ मणि इन्द्राख्ये पूजयन् शुभदो भवेत् ॥५४॥
अथर्ववेदस्तीक्ष्णश्चण्डः क्षामरूपो विश्वात्मा विश्वकृत् । 'क्रू र ऊर्ध्व ज्वालावान् क्ष द्रकर्मा च शास्त्र कृतोन्नामी
नीलोत्पलवर्णो वर्णेन स्वदारतुष्टः परस्त्रियार्थश्च । ॥५५॥ सोवर्ण पद्मरागे वा रुद्राख्ये° पूजयन्मुने । सर्वकामानवाप्नोति अथर्व विहितानि च ॥५६॥
२. सामगुणं स्मृतम् क ग। ४. देवदर्शाः क च ।
१. माससहस्राणि मासानि क । ३. क पुस्तके पंक्तिद्वयं नास्ति । ५. बैतालम् क ग । ६. पद्यमिदं क ग पुस्तके नास्ति ।
७. रूद्राक्षे क।