________________
सप्ताधिकशततमोऽध्यायः
व्रतञ्च पशवो होम' कूर्मलक्षणसंयुताः । कथिताः परिशिष्टास्तु ऊनविंशा महामुने ॥२८॥ कठानां च यूपान्याहुश्चत्वारिंशच्चतुत्तराः । प्राच्योदीच्य निरुक्तच वाजसनेयश्च पंचधा ॥२६॥ दशभेदविभिन्नास्तु प्रष्टव्या मुनिपुगवा' । जाबाला बौधेया काण्वा माध्यन्दिनाश्च शारवेयाः ॥३०॥
सपायिना' कपालाख्या पौण्डरवत्सवारिकपराशराः ।
गौणपा बौधेया अयोध्यायेयाश्च तेषामध्ययनानि च ॥३१॥ द्वे सहस्र शते न्यूने वेदवाजसनेयके । ऋग्गणः परिसंख्यातस्ततोऽव्यानि यजूंषि च ॥३२॥ अष्टौ सहस्राणि शतानि चाष्टाशीतिरन्यत्राधिके । यजूंषि तत्प्रमाणानि यजुषादि केवलम् ॥३३॥ शश्वत्क्रिय परिसंख्यातं ब्राह्मणं च चतुर्गुणम् । एतत् त्वञ्च विजानीयात् तैत्तिराद्विविधा पुनः ३४। प्रौखेयाः खंडिकेयाश्च चण्डिका पंचधा पुनः । कालकेया बौद्धायनीया हिरण्यकश्यास्तथा परे ॥३५॥ भारद्वाजापस्तम्बाश्च तेषां भेदाः प्रकीर्तिताः । अध्ययनं सौप्तिकं चैव प्रवचनीयं तथापरम् ॥३६॥ सामवेदस्तु विस्तीर्णः सहस्रभेदैः कीर्तितः । अनध्यायेष्वधीयन्ते तदा इन्द्ररेण धीमता ॥३७॥
वज्रण निहताः शेषान् वक्ष्यामि शृणु भो द्विज ।
नारायणीयाः कौथुमाश्च तत्र भेदाः पुनः शृणु ॥३८॥ नारायणीया सप्तव उग्राद्या नयनावरा वेदमाता। कालरया महाकालरयालंघन विद्युता ॥३६॥ कौथुमानामपि सप्त असुरा बादरायणा । वैनेया बौधेया अयौधेयाश्च तेषामध्ययनानि च ॥४०॥ प्रांजलाद नभृत्याश्च प्राचनयोज्यानीकायना।
२. मुनिपुंगानां क ।
१. वसवोत्थानम् क । ३. स्वपाठिनांक । ४. बौलपा क। ६. पद्य मिदं क पुस्तके नास्ति । ८. ख पुस्तके एव केवलम् । १०. कीर्त्यमानाम् ख ।
५. सशुक्रियं क ग। ७. राणायणीया ग । ६. कालवया महाकालवयानन्दनवियताः ख ग