SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् ३८६ ब्रह्मोवाच । एक एव भवेद्वेदश्चतुर्भेदः पुनः कृतः । शाखार्थमल्पसत्त्वाना ग्रहणा यातिविस्तरात् ॥१२॥ संविभक्तो मया वत्स ऋग्यजुः सामाथर्वणः । अत्र भेदास्तु ऋग्वेदे दश चैव प्रकीर्तिता ॥१३॥ प्राश्लेषाः संख्या चर्चाश्च श्रावकाश्चर्चकास्तथा। श्रावणीया चक्रमा च पुटक्रमवटक्रमाः ॥१४॥ दंडश्चेति समासेन पुनरेव पारगाः । शाखाश्च विविधा भूयः शाकला ब्रह्ममातृकाः ॥१५॥ तेषामध्ययनं प्रोक्त मंडलाश्चतुषष्टिकाः । वर्गाणां परिसंख्यातं चतुर्विशशतानि च ॥१६॥ ऋचां दशसहस्राणि ऋची पञ्चशतानि च । ऋचामशीतिपादञ्च तत्र पारणमुच्यते ॥१७॥ ऋग्वेदे तु . भवेत्संख्या यजुर्वेदस्य श्रूयताम् । षडशीतिविभेदेन मया भिन्नं शिवाज्ञया ॥१८॥ दशधा चरका तत्र कारका विद्रधिषया । कठाप्राच्यः कठाश्चैव कपिष्ठलकठास्तथा ॥१६॥ चारायणीयाः श्वेताश्च श्वेतातारा मैत्रायणीया। पुनः सप्तविभेदेन मैत्रायण्यः प्रकीर्तिताः ॥२०॥ मानव-दुन्दुभ-वाराहाश्छागेयाः हारिद्रवीयाः । सामसायनीयाश्च' तेषामध्ययनमुच्यते ॥२१॥ अष्टादशसहस्राणि पठन् शाखाविदो भवेत् । द्विगुणं पदपाठो यस्त्रिगुणं क्रमपारगः ॥२२॥ षडंगानि यदाधीत्य षडंगविदुच्यते । शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिषम् ॥२३॥ षडंगानि भवन्त्येतान्युपांगानि शृणु कथ्यताम् । प्रतिपदमन्त्रपदं छन्दो भाषा मीमांसा च ॥२४॥ न्यायतर्कसमायुक्ता उपांगाः परिकीर्तिताः । परिशिष्टाश्च संख्याताः अष्टादश शृणुस्व तत् ॥२५॥ यूपलक्षणप्रतिष्ठा तु वाक्यं संख्या चरणव्यूहः । श्राद्धकल्पश्च सूक्तानि पारिषदमृग्यजुश्च ॥२६॥ अष्टकापूरणञ्चैव प्रवराध्यायांग' षोडश । क्रतुसंख्याभिगम्यो यज्ञ पाश्र्वानुग्रहश्रोत्रिकम् ॥२७॥ २. ग्रहाणाम् क । ४. चतुः सप्तति क ग। ६. पाद्ये क ग । १. क. ग पुस्तके नास्ति । ३. चाक्षु मांडका क ग । ५. मानमशीतिपादञ्च ख। ७. हरिद्रवीया क ग । ८. सामसीमापनीयाश्च क। १०. अनुपदम् क। ६. विगुणम् क ग। ११. शास्त्रम् ख ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy