________________
३८४
चतुरधिकशततमोऽध्यायः
देवदेवीमनुज्ञाप्य स्नात्वा चैव जितेन्द्रियः । पूजयेत् पुष्प-गंधान्न-धूप-दीप-पवित्रकः ॥१३॥ हुत्वा हुताशने देवी तथा द्रोणमयों कुरु । प्राढकेन भवेद्वत्स सर्वरत्नविभूषिताम् ॥१४॥ हेमश्रृंगी शफैः रुप्यै गंधघ्राणां सुशोभनाम् । मुखं गुडमयं कार्य जिह्वामन्नमयी तथा ॥१५॥ कम्बलं शुक्लसूत्रां तु पादो इक्षुमयास्तथा । ताम्र पृष्ठे भवेत् तस्या ईक्षणं मणिमोक्तिकः ॥१६॥ चारुपत्रमयौ कणौ दन्तैः फलमयः शुभैः । नवनीतस्तनां कुर्यात् पुष्पमालामयं कुरु ॥१७॥ पुञ्छञ्च मणिमुक्त स्तु फल शुचि समर्पयेत् । शुभां वस्त्रयुगच्छन्नां चारुछत्रविभूषिताम् ॥१८॥ ईक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः । काँस्योपदोहनं दद्यात् देव्या मे प्रीयतामिति ॥१६॥ मन्त्राभिमन्त्रितं कृत्वा तद्भक्ताय निवेदयेत् । यावन्ति तिलवस्त्राणि धातुमूलफलस्य च ॥२०॥ विद्यन्ते रजरेणू षि तावत्स्वर्गे वसेन्नरः । पितॄन् विगतपापांस्तु कृत्वाधस्थ गतानपि ॥२१॥ प्राप्य देव्याः शुभं लोकं स्थापयेदविचारणात् । तस्मिन् मे रमते वत्स यावदाचन्द्रतारकम् ॥२२॥ तथा कालादिहायातो जायते पृथिवीपतिः । विनय -तेज-सम्पन्नो बहुपुत्रः सुखान्वितः ॥२३॥ पुनर्देव्याव्रते' नित्यं पूजने विधिवत्तथा। प्राप्य योगमहेश्वयं प्राप्नोति पदमव्ययम् ॥२४॥
इति श्री देवीपुराणे तिलधेनुर्नाम चतुरधिकशततमोऽध्यायः ।
१. विचित्रकै ग। ३. धेनूगतामपि ख। ५. रतो क ग।
२. सूक्ष्मसूत्रम् क ग। ४. निर्वैर ख । ६. आद्ये देव्यवतारे तिलधेनुः क ग ।