________________
पञ्चाधिकशततमोऽध्यायः ।
अगस्त्य उवाच ।
तिलाभावे प्रदातव्या सपिर्धेत विजानता । स्नापयित्वा भवानीन्तु घृतक्षीरैर्यथाविधिः ॥ १ ॥ पूजयेत् स्रजमालाभि नैवेद्य : सुमनोरमैः । ग्राहरेत्सर्वद्रव्याणि उपकल्पेत तत्र तान् ॥२॥ गव्ये सर्पिषि कुम्भे तु पुष्पमालाविभूषिते । कांस्यपात्र तथा वस्त्रैस्छादयीत विजानता ॥३॥ हिरण्यगर्भसहितं मणिविद्र ममौक्तिकैः । पादानिक्षुमयान् कुर्यात् कुर्याद्रौप्यांस्तथा शफान् ॥४॥ हेम चक्षुस्तथा शृंगो कृष्णागुरुमयै शुभैः । सप्तधान्यानि तत्पार्श्वे पत्रोर्णेन च कम्बलम् ॥५॥ घ्राणो तगरकर्पूरो स्तनाः फलमया शुभाः । मुखञ्च गुरुक्षीरेण सितां जिह्वां प्रकल्पयेत् ॥६॥ पुच्छं क्षौममयं कार्यं रोमाणि सितसर्षपैः । ताम्र पृष्ठं विचित्रन्तु स्नेहरूपा मनोरमा ॥७॥
विधिना घृतवत्सं च कुर्याद् लक्षणलक्षितम् । एतौ कृत्वा तथा नन्दां पूजयित्वा विधानतः ॥ ८ ॥ तद्भक्ताय प्रदातव्या मंगलाशास्त्रपारगे । मात्र' सदोपकाराय ' गृह्ण मेऽनुग्रहाय च ॥६॥ प्रीयतां नन्दिनी देवी मङ्गला चचिका उमा । इत्युक्त्वा प्रर्चयेद्धेन कृत्वा नन्दामनोनुंगाम् ॥१०॥ श्रनेन विधिना देया यवशालीक्षूकल्पिता । हेमरत्नान्नवस्त्रा वा देया गौविधिना नया ॥ ११॥
१. सप्तधान्यौ च ग ।
३. साते मनोपकाराय क ग ।
२. घृतरत्नं ख ।