________________
चतुरधिकशततमोऽध्यायः ।
मनुरुवाच ।
मार्गे रसोत्तमं दद्यात् वृतं ' पोषे महाफलम् । तिला माघे मुनिश्रेष्ठ धान्याः सप्ताथ फाल्गुने ॥१॥ विचित्राणि च वस्त्राणि चैत्रे दद्यात् द्विजोत्तमः ।
वैशाखे यवगोधूमान् ज्येष्ठे तोयभृतान् घटान् ॥२॥
आषाढे चन्दनं देयं कर्पूरश्च महाफलम् । नवनीतं नभो मासि चैत्र प्रोष्ठ पदे मतम् ॥ ३॥ गुडशर्कर खंडाद्यान् लडडूकानश्विने मुने । दीपदानं महापुण्यं कात्तिके यः प्रयच्छति ॥४॥ सर्वकामानवाप्नोति क्रमान्मार्गादुदाहृतान् । धेनूं पौषे वृतां दद्यात् माघे तिलमयों तथा ॥ ५॥ ज्येष्ठे तोयमयीं दद्यात् वृत' वत्सां महाफलाम् । सुरूपां श्रावणे दद्यात् गां महाफलदायिकाम् ॥ ६॥ सर्व हेममयः शृगैः रौप्यपादैरुदाहृताम् । काँस्यपात्रां सघण्टां तुः किंकिणीरुपशोभिताम् ॥७॥ युगां सस्रजां वत्स दातव्या विधिनानया । देवी ब्रह्मशसूर्यं वा विष्णु वाथ यथाविधि ॥ ८ ॥ स्वभावचित्त सम्पन्नो पूजयित्वा द्विजोत्तम । दातव्या वीतरागे तु कामक्रोधविवर्जितम् ॥६॥ याचके सदाचारे विनीते नियमान्विते । गो प्रदाता लभेत् कामान् स्वर्गे लोके मनोरमान् ॥ १० ॥
अगस्त्य उवाच ।
तिलधेनं प्रवक्ष्यामि दुर्गा येन प्रसीदति । श्रपि दुष्कृत कर्माणि यां दत्त्वा निर्मलो भवेत् ॥११॥ प्रत्यक्षा येन देवी तु राज्यपुत्रसुरवावहा । भवते त्वचिरेणैव तां श्रृणुष्व नृपोत्तम ॥१२॥
१. व्रतम् क ग ।
३ मृतवत्सां ग ।
५. मया क ग ।
२. चित्रा क ग ।
४. अरुपो ग ।
६. सुभाव वित्तसम्पन्नो ख ।