________________
त्र्यधिकशततमोऽध्यायः ।
अगस्त्य उवाच ।
दत्त्वा
प्रथातः सम्प्रवक्ष्यामि तव दानमनुत्तमम् । येन तुष्टा पुरा देवी शक्रस्य तु महात्मनः ॥१॥ नीलां वा यदि वा श्वेतां पाटलां कपिलां पिवा । अदुःरवां वत्सवालाञ्च सुखदोहां गवां नृप ॥२॥ श्रादाय विधिवद्दवीं पूजयेत् त्रजपंकजैः । धूपञ्च पञ्चनिर्यासं सतु रुष्कागुरुचन्दनम् ॥३॥ मन्त्रपूजान्तु देव्या नैवेद्यमुपकल्पयेत् । पायसं घृतसंयुक्तं क्षमापयेत् तथा तु ताम् ॥४॥ द्विजाय शिवभक्ताय निवेदयेत् सवत्सगाम् । सहेमवस्त्र काञ्चयाञ्च महत्पुण्यमवाप्नुयात् ॥५॥ यावत् यद्रोमसंख्यानं तावद्द व्याः पुरे वसेत् । इत्र विगतपापो जायते नृपसत्तमः ॥६॥ मनुनायं विधि कृत्वा प्राप्तं लोकमनुत्तमम् । श्रहं ते कथयिष्यामि शृणु राजन् यथाविधि ॥७॥ शुभां हेममयीं गाव कारयेद्रजतखुराम् । तां वस्त्रप्रावृतां कृत्वा पूजयेद् दनुदर्य हाम् ॥८॥ विचित्र चित्रपुष्पैश्च गन्धधूपनिवेदनः । तथा क्षमापयेद्द व तां गां तत्रैवमानयेत् ॥६॥ देव त्वदय आदेशात् तव भक्तेषु दीयते । पुनस्तां विप्रराजाय दापयेत् शिवभाविते ॥ १०॥ अक्षयफलकामेन प्रायश्चितविशुद्धये । मनुना चीर्णमासीच्च व्रतमन्यैः नृपोत्तमैः ॥११॥ सप्त पूर्वान्परान् वंशानपि किल्विषसंस्थितान् । उद्धृत्य नयते वत्स देवीलोकमनुत्तमम् ॥१२॥ इति श्री देवीपुराणे मगोव्रतं नाम त्र्यधिकशततमोऽध्यायः ।
१. शुक्रस्य क ग ।
३. यमुनाया ख ।
५. गन्धदर्पहाम् ख ।
७. समाधायामृतोपम् क ग ।
६. श्रद्ये देव्यवतारे हेमगोव्रतम् क ग ।
२. दुग्धपुनन्तु ख.
४. देवीम् क ग ।
६. आप्नोति ग ।
८. सातु ख, सत्य क ।
७