________________
३८१
देवीपुराणम् येन संप्रीयते वत्स अचिरेण महात्मनाम् । हेमोत्यं' पादुके कार्य यथाशक्त्या तु भावितः ॥१२॥ आम्रदूर्वाक्षतबिल्वपत्रः पूजितमन्तः । देवी सम्पूजयित्वा तु स्थंडिले प्रतिमासु वा ॥१३॥ तद्भक्ताय च विप्राय कन्यासु च निवेदयेत् । मुच्यते सर्वपापेभ्यो स्वर्गलोकं च गच्छति ॥१४॥ तनुक्षये महाप्राज्ञो विद्याधरपतिर्भवेत् । कालेन चेहायातः पृथिव्या नृपसत्तम ॥१५॥ भवते नात्र सन्देहो ब्रह्मणेदं च भाषितम् । प्रजापतिर्वशिष्ठेन कश्यपस्य च दक्षयोः ॥१६॥ तथा त्वमपि राजेन्द्र कुरुष्वेदं पदव्रतम् । महदेश्वर्यकांक्षाय देवीप्रत्यक्षकारिणे ॥१७॥
इति श्रीदेवी पुराणे पदव्रतं नाम द्वयधिकशततमोऽध्यायः२॥
१. होमाच्च ख।
२. इत्याद्ये देव्यवतारे पदव्रतम् क ग ।