________________
द्व यधिकशततमोध्यायः।
अगस्त्य उवाच । आषाढे तोयधेनू यो घृतं भाद्रपदे तथा । माघे तु तिलधेनूः स्यात्स दत्त्वा लभते हितम् ॥१॥
विद्याधर उवाच । कानि दानानि देव्याया देयानि मुनिसत्तम । कानि पात्राणि देशं वा कालं द्रव्यविधि वद ॥२॥
तान्यहं श्रोतुमिच्छामि कथयस्व प्रसादतः ।
अगस्त्य उवाच ।
न्यायतो यानि प्राप्तानि शाकान्यपि नपोत्तम ॥३॥ तानि देव्यानि देव्यायाः कन्यका योषितां सदा । तद्भक्त'षु च विप्रेषु अपरेषु च नित्यशः ॥४॥ विशेषात् प्रावृषि वत्स देवी कामान् प्रयच्छति । देशं नन्दागयाशैलं गंगानर्मदापुष्करम् ॥५॥ वाराणस्यां कुरुक्षेत्रं प्रयागं जम्बुकेश्वरम् । केदारं भीमनादञ्च दण्डकं पुष्कराह्वयम् ॥६॥ सोमेश्वर महापुण्यं तथा अमरकण्टकम् । कालजरं तथा विन्ध्यं यत्र वासं गुहस्य तु ॥७॥ द्रव्यं भू-हेम-गो-धान्यं तिलवस्त्रघृतादिकम् । विधिना उपवासेन एकान्नं नक्तभोजनम् ॥८॥ शुचिना भावपूतेन क्षान्ति-सत्य-व्रतादिना । अपि सर्षपमात्रोऽपि दातारं तारयेद्ददत् ॥६॥ यः पुनर्विधिना वत्स देवीमुद्दिश्य प्रावृषि । विप्रेषु विप्रकन्यासु तिलादीन् संप्रयच्छति ॥१०॥
तदा संतुष्यते देवी अचिरेण तु विद्यया । अतः परं प्रवक्ष्यामि नन्दा देव्याः परं व्रतम् ॥११॥
अतः पर
१. विद्याधन ग। ३. भीमदानञ्च ख।
२. शालान्यपि ग। ४. गोमेश्वरम् क ग।