________________
देवीपुराणम् प्रमदा सुभगा भत्तु मनुष्योऽपि महाभुजः । पोनवक्षाः पृथुभावः पूर्णचन्द्रनिभाननः ॥२५॥ सितदन्तो गजगामी महाबलपराक्रमः । प्रियः सर्वस्य लोकस्य पद्मपत्रायतेक्षरणः ॥२६॥ मृदुवाक्हास्ययुक्तश्च' स्त्रीणां च मनोहारकः । कामतुल्यो महाविप्रो व्रतेनानेन जायते ॥२७॥ नारियोगश्च इष्टानामर्थानाञ्च शुभागमः । नक्षत्राख्यं महापुष्यं व्रतानान्तु व्रतोत्तमम् ॥२८॥
प्रापत्स्वपि न भेदं तु प्रियः कार्य यदुच्यते । अपि दोषात्मक वर्न त्याज्यं मुनिसत्तम ॥२६॥
इति श्रीदेवीपुराणे नक्षत्रव्रतं नामैकाधिकशततमोऽध्यायः ।
३. सर्वशास्त्रार्थवेत्ता क ग ।
४. आद्ये देव्यावतारे नक्षत्रव्रतम् क ग ।