________________
देवीपुराणे
३६६
सुस्नातो मन्त्रविधिना अग्निकार्य तथा कुरु । तथा च पूजयेद्देवी प्रतिमा स्थण्डिलेऽपि वा ॥१६॥ पादुके वाथ खड्ग च छूरिकाधनुषोस्तथा। मन्त्रधावननपूर्वन्तु पञ्चगव्यं चरू कुरू ॥१७॥ दत्त्वा दिशां बलि वत्स तथा कुर्याधिवासनम् । सदशर्वस्त्रपत्रैर्वा स्थापयेत् तत् पवित्रकम् ॥१८॥ कृत्वा सत्राभिमन्त्राद्य नैवेद्यं च निवेदयेत् । रात्रौ तु जागरं कुर्यात् सर्वशोभासमन्वितम् ॥१६॥ नटनर्तकवेश्यानां संघानि मुदितानि च। तिष्ठन्तु वाद्यगीताभिनिरतानि पुरन्दर ॥२०॥ प्रभातसमये वत्स प्राप्ते दद्यात् पुनर्वलिम् । प्रत्यूषे विधिवत् स्नात्वा तथा देवी हुताशनम् ॥२१॥ जप्त्वा हुत्वाथ कन्याश्च स्त्रियो भोज्या द्विजास्तथा । पवित्रारोहेन वृत्ते दक्षिणामुपपादयेत् ॥२२॥ यथा शक्ता भवेच्छन नित्यं कार्यकारिणा । राज्ञा नानाविधा भक्ति प्रक्षक्रीडा मृगावधम् ॥२३॥ द्विजाचार्यश्च स्वाध्यायं न कार्य कृषिगोवृषः । बाल स्रीभिश्च च प्रात्मीयं दिनानि दश पंचवा ।२४। देव्या व्यापारनामाभिः कर्त्तव्यं सततं हरे । तथा सम्पूर्ण कर्तव्यं पुनः कुर्यात् पवित्रकम् ॥२५॥ एवं यः कारयेद्वत्स तस्य पुण्यफलं शृणु । सर्व-यज्ञ-व्रत-दान सर्वतीथाभिषेचनम् ॥२६॥
प्राप्नुयान्नात्र सन्देहो यस्मात् सर्वगता शिवा ।
नाधयो न च दुःखानि न पीडा न च व्याधयः ॥२७॥ न भयं शत्रुजं तस्य न ग्रहैः पीड्यते क्वचित् । सिध्यन्ते सर्वकार्याणि अपि यानि महान्त्यपि ॥२८॥ नातः परतरं वत्स मन्ये पुण्यविवृद्धये । नराणाञ्च नृपाणाञ्च स्त्रीणाश्चापि विशेषतः ॥२६॥ सौभाग्यजननं वत्स तव स्नेहात्प्रकाशितम् । मयापि ते नृपश्रेष्ठ यथावदुपपादितम् ॥
श्रवणादपि पुण्याय किं पुनः कारणाद्विभो ॥३०॥ इति श्रीदेवीपुराणे पवित्रारोहणं नामाष्टनवतितमोऽध्यायः' ।
१. क ग पुस्तके अध्यायोऽयं नास्ति ।