SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ नवनवतितमोऽध्यायः । ब्रह्मोवाच । श्रतः परं प्रवक्ष्यामि सर्वाभ्युदयवर्धनम् । यत्कृत्वा भवते राजन् सर्ववर्णोपि चानघ ॥ १ ॥ नभोमासे तु सम्प्राप्ते नक्ताहारो जितेन्द्रियः । प्रातः स्नायी सदाध्यायी श्रग्निकार्य परायणः ॥ २ ॥ देवीं संपूजयेद्वत्स पुन्नागविल्वचम्पकैः । धूपन्तु गुग्गुलं दद्यान्नैवेद्यं घृतपाचितम् ॥३॥ क्षीरान्नं दधिभक्तञ्च श्रथवा शाकयावकम्। जपं कुर्यात्तु मन्त्रस्य सहस्रं शतमेव वा ॥४॥ देव्वायास्त्रं समयेत यावत् पूर्णव्रतो भवेत् । पूर्णे व्रते ततो वत्स कन्याचार्यद्विजान् स्त्रियः ॥ ५ ॥ भोजयेत् पूजयेद्भक्त्या हेमभूवस्त्रगोवृषैः । श्रभावात् मंत्रजापन्तु नित्यं कार्यं नृपोत्तम ॥ ६ ॥ यः कुर्यात् सततं भक्त्या सोऽपि तत्फलमाप्नुयात् । 3 न च व्याधिर्जरा मृत्युं न भयं चोर' - सम्भवम् ॥७॥ भवते नन्दाभक्तस्य अन्ते च पदमव्ययम् ॥ ८ ॥ अथ मन्त्रपदानि भवन्ति । श्री नन्दे नन्दिनी सर्वार्थसाधनी । ( मूलविद्या ) नों नुं नन्दे हृदयम् । श्रों तुं नन्दिनी शिरः । श्रों सर्वानि शिखा । श्र अर्थसाधिनी कवचम् | नों नुं नेत्रम् । श्रों नमः हुँफट् अस्त्रम् । श्रों नन्दिनी उपचारहृदयम् ॥६॥ तृतीयामथ पञ्चम्यां चतुर्थ्यामष्टमीषु च । नवम्यं । पौर्णमास्याञ्च एकादश्याञ्च द्वादशीम् ॥१०॥ १. पावितम् क। ३. भूगोवृषः क ग । ५. तत्तुल्यमाप्नुयात् क । २. शक्त्या क क ! ४. द्विजोत्तम क । ६. चारिसम्भवम् क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy