________________
अष्टनवतितमोऽध्यायः ।
ब्रह्मोवाच । एवमाचारयुक्तात्मा सततं चच्चिकारतः । प्राप्नुयात् सर्वकामांस्तु यथेप्सितमनोऽनुगान् ॥१॥
शक्र उवाच । नित्यं ये भगवतीभक्तास्तै रैद्विजसत्तम । किं कार्य किं वा नो कार्य तद्वद पृच्छतो मम ॥२॥
ब्रह्मोवाच । सर्वा सर्वगता देवी सर्वदेव नमस्कृता । यष्टव्या शुद्धभावेन न भिन्ना पृथगेव सा ॥३॥ नामभेदाद् भवेद्भिन्ना न भिन्ना परमार्थतः । शिवा नारायणी गौरी चच्चिका विमला उमा ॥४॥ तारा श्वेता महाश्वेता अम्विका शिवशासनात् । यावद्रव्यं भवेदहं तावद्देवी व्यवस्थिता ॥५॥ सा वन्द्या पूजनीया च सततं नन्दभावितैः । विजयाथ नृपः खङ्ग छूरिकापादुकापटे ॥६॥ चामुण्डा चित्ररूपा वा लिखिता वाथ पुस्तके । ध्वजे वा कारयेच्छक स नृपो विजयेद् द्विषम् ॥७॥ विशेषाच्छ्राबणारभ्य तस्याः पूजान्तु कारयेत् । पवित्रारोहणं वत्स सर्वशास्त्रेषु गीयते ॥८॥ अग्नेब्रह्मस्य पार्वत्या गजवक्त्रमहोरगाम् । स्कन्द-भानु-गणा-मातृ-दुर्गा-धर्मेश-गो-वृषाम् ॥६॥ विष्णोः कामस्य देवस्य शक्रस्य च दिनांशगाम् । पूजनीया तु चामुण्डा चण्डपापविनाशिनी ॥१०॥ सर्वकार्यादिना दत्ता एभिनमिः पुरन्दर । अथवाषाढमासे तु श्रावणे वापि कारयेत् ॥११॥ सप्तम्यां वा त्रयोदश्यामधिवासं सुराधिप । सर्वोपहारसम्पन्न नन्दायाः भक्तिमाश्रितः ॥१२॥ शुक्लतन्तुमयं कार्य पवित्रं बहुत-तुभिः । ग्रन्थिभिः सुविचित्राभि रचितञ्चैव मौक्तिकैः ॥१३॥ सुधौत बक्षयेत् तन्तुं रोचना शशिकुंकुमैः । तथा सर्वाणि द्रव्याणि पुष्पगन्धफलानि च ॥१४॥
नैवेद्यानि विचित्राणि वस्त्रानाद्याभरणानि च । हेमतारमयान् पुष्पान् कुशानि मृदवस्तथा ॥१५॥