________________
देवीपुराणम्
शुक्लमाल्यधरो नित्यं सुगन्धः सुखवाससः । नेत्राञ्जनं निषेवेत दन्तधावनपूर्वकम् ॥१५॥ ऋजुपथे सदाचारो ऋजुसेवी जितेन्द्रियः । पठनाजपनासतो लिखना श्रवणा तथा ॥ १६ ॥ नित्यं दैवतपूजायामौषधाधारनेषु च । जपहोमार्चने सक्तो विन्दते सुखमुत्तमम् ॥१७॥ न गच्छन्मैथुनं पर्वे न देवगुरुसन्निधौ । न कुर्याज्जले नादन्तु न वेद्यर्न च वत्सरः ॥ १८ ॥ न प्रधानजनवादं नृपाक्षेपं कदाचन । नृप-बन्धु-गुर्वमात्य - भिषग्-ज्योति पुरोहितैः ॥१६॥ विरोधानीह दुःखानि सुखं प्रीत्या श्रवाप्नुयात् ॥ २० ॥
इति श्री देवीपुराणे आचारकीर्त्तनं नाम सप्तनवतितमोऽध्यायः' ।
१. क ग पुस्तके अध्यायोऽयं नास्ति ।
३६७
进