________________
सप्तनवतितमोऽध्यायः ।
शक्र उवाच ।
गोमेध अश्वमेधश्च पशुमेधादयो मखाः । तेषु प्राणिवधस्तात ते च स्वर्गादिसाधनाः ॥ १ ॥ एवं पूर्वापरार्थेषु विरोधः सुमहान् भवेत् । छिन्धि मे संशयं नाथ सर्वशास्त्रार्थपार ॥२॥ ब्रह्मोवाच ।
यज्ञार्थं पशवः सृष्टा यज्ञेष्वेषां वधः स्मृतः । अन्यत्र घातनाद्दोषो वाङ्मनः - काय - कर्मभिः ॥३॥ देवार्थे पितृकार्येषु मनुष्यार्थे पुरन्दर । वधयन् न भवेदेन श्रन्यथा महाकिल्विषम् ॥४॥ नवकृषरपूपानि पायसं मधुसर्पिषी । वृथा मांसञ्च नाश्नीयाद्देव - पितृ प्रहो - मितम् ॥५॥ न वृथा चेष्टयेत् किञ्चित् त्रिवर्गस्य विरोधया ।
न च वाचं वदेद् दुष्टां न दीनां न च कर्कशाम् ॥ ६ ॥
नासहायो ब्रजेद्रात्रौ न पंके न चतुष्पथे । न शून्यागारे तिष्ठेत न च पर्वतमस्तके ॥७॥ न श्मशाने न देवस्य प्रासादेषु कदाचन । न च गवि प्रसूतायां विश्वसेत स्त्रीजनेषु च ॥ ८ ॥ न वृक्षारोहणं कुर्यात् न च कूपावलोकनम् । न गोद्विजहुताशान्नं मध्येन गमनं क्वचित् ॥६॥ न वह्नौ तापयेत पादं न च तममभिलंघयेत् । न सूर्यमवलोकेत उदयास्तमने क्वचित् ॥१०॥ न मुखेन धमेर्दाग्न न च खड्गं तु लंघयेत् ।
तथा चैवायुधान् सर्वान् यत्रोपस्कर मार्जनीः ॥११॥
न प्रमत्तजनाकीर्णे न च स्त्रीवालसेविते । गृहे वामगमं कुर्यान्न च विश्वास क्रीडनम् ॥१२॥ न विषं भक्षयेत् प्राज्ञो न भुजंगश्च क्रीडयेत् । न गुरुद्विजवेदांश्च निन्दयेन्न च श्राक्षिपेत् ॥ १३॥ सर्व भद्रं शुभं ब्रूयात् सर्वकालं शुभाननः ।
शुक्लवासा शुचिः स्रग्वी न च केशनखः सुखी ॥ १४ ॥