________________
देबीपुराणम्
३६५
तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः । ऋचमेकाञ्च योऽधीते तच्छतानि च तत्समम् ॥१६॥ अपरश्च महादोषः श्रूयते ऋषिभाषितः । इन्द्रो हिनस्ति वज्रण अपशब्दमनुच्चरन् ॥१७॥ यज्ञकाले किल शर्मा ऋचा शुद्धामुदीरितः । हतो रुद्रण शक्रण सराष्ट्रबलवाहनः ॥१८॥ तस्माच्छुद्धः क्रियाजाति द्रव्यसम्पत्तिलक्षणः । वेदो वेदनशीलस्य ददाति दिविजं फलम् ॥१६॥ अग्निहोत्रेण यज्ञो वै वेदश्चान्द्रायणादिभिः । सिध्यते नात्र सन्देह इत्येवं मनुरववीत् ॥२०॥ गर्भधारित्र संस्कारयंदा विप्रो ब्रतं लभेत । तदा चाध्ययनं कुर्याद्वेदस्य विधिना श्रृणु ॥२१॥ न संकीर्णे जले कुर्यात् न च तस्करसन्निधौ । न श्वान-शूकर-काक-कृकराभ्यः समावृतः ॥२२॥ सन्ध्याजितः-निर्घातो रजो-दाह-तमो-वृते । नेऋते मृतनष्टेषु राज्ञां संग्रामविप्लवे ॥२३॥
श्राद्धभुञ्जेन च वान्तस्तु नाजीर्णो न च कामितः ।
नाष्टम्यां न च गोदोहे न पौर्णी न च पार्वणे ॥२४॥ न शेषे न च इन्द्राहे न संक्रान्ती तथा परे । न राहोरुपरागेषु न च केतुप्रदर्शने ॥२५॥ नोत्पांते च पठेद्वेदं यदीच्छेत् श्रेयः सर्वदा । उपाध्यायं समाश्रित्य तस्य चाज्ञाकरो भवेत् ।
एवं सम्वततो वत्स फलन्ते वेदिकाः क्रियाः ॥२६॥ - इति श्री देवीपुराणे वेदानुषंगो नाम षण्णवतितमोऽध्यायः' ।
१. क ग पुस्तके अध्यायोऽयं नास्ति ।