________________
षण्णवतितमोऽध्याय:
नृपवाहन उवाच । केन केन प्रकारेण देव्या वर्णाश्रमविभो । पूजनीया स्ववृत्तस्थैरेतदिच्छामि वेदितुम् ॥१॥
अगस्त्य उवाच ।
साधु राजन् यथा पृष्टं वर्णाश्रमविभागतः । पालनं पूजनं देव्या प्रवक्ष्यामि ह्यशेषतः ॥२॥ वेद एव द्विजातीनां निःश्रेयसकरः परः। दृष्टादृष्टार्थमिच्छ भिः सेवनीयः सदा द्विजैः ॥३॥ मातृतः पितृतः शुद्धः पञ्चसप्त तथा द्विजः । संस्कारैर्गर्भधारी च तदा तस्य क्रिया ततः ॥४॥ यथा हि मद्यभाण्डस्य शुद्धिः केनापि न विद्यते । पञ्चगव्यं न तद्याति एवं प्रायं श्रुतेः क्रिया ॥५॥ जातिसंस्कारहीनस्य द्रव्यसंकरकारिणः । शूद्रान्नभोजिनो राजन् न वेदो ददते फलम् ॥६॥ शूद्रस्य अन्नमशित्वा वेदं यदि उदीरते । उच्छिष्टभोजी वर्णानां नरके पर्युपासते ॥७॥ चाण्डाल चण्डकर्मे च वृषलीपतिसन्निधौ । यदि उदीरते वेदं तदा विप्रोऽपि तत्समः ॥८॥ वेदमन्त्रान् यदा विप्रः शूद्रद्रव्येण तर्पते । सर्पिषा यवगोधूम तिलपिष्टक शालिभिः ॥६॥ यावतो तस्य द्रव्यस्य रजोरेणु विधीयते । तावतोश्च महाघोरे नरके पर्युपासते ॥१०॥ न हि वेदं समासाद्य विधि जह्यात् द्विजोत्तम । तस्य एव हि आज्ञा न लंघनीया कदाचन ॥११॥ चक्रवृत्तिधरा विप्रा उञ्छकापोत वृत्तिनः । दन्तोलूखालिकाहारा वेदानां लभते फलम् ॥१२॥ नदीसंगमगोष्ठेषु विचित्रषु तटेषु च । विचित्रभूमिदेशेषु दर्भदूर्वावृतेषु च ॥ १३॥
गृहेषु शुभलिप्तेषु विष्णु-सूर्य-गृहेषु च । पठितव्यः सदा वेदः स्वरवर्ण सुलक्षितः॥१४॥ प्लुतदीर्घक्रमह्रस्व सानुस्वार सुलक्षिताम् । ऋचमुच्चारयेत् प्राज्ञो न द्रुतां न विलम्बिताम् ॥१५॥