SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् त्रिमन्त्रां पठते यस्तु नन्दाभक्तिपरायणः । सोऽचिरेणैव कालेन सिद्धिमिष्टां लभेन्नरः ॥४५॥ यथोक्तश्चैव कर्त्तव्यमादेशः परमेश्वरि । श्रवरणाद्भावयुक्तस्य सर्वकामान् प्रयच्छति ॥ ४६ ॥ दशानां राजसूयानामग्निष्टोमशतस्य च । भावितः फलमाप्नोति कोटिकोटि गुणोत्तरम् ॥४७॥ पुत्रार्थी लभते पुत्रं धनार्थी धनभाग्भवेत् । मुच्यते बन्धनाद्वद्धो रोगी रोगात् प्रमुच्यते ॥ ४८ ॥ यान् यान् कामान् नरो भक्त्या पूजयन्नभिकांक्षते । तांस्तान् स लभते शक्र इत्येवं शिव श्रब्रवीत् ॥४६॥ देवेन कथितं देव्या शक्रस्य तु पितामहात् । मया तव नृपव्याघ्र किं भूयः परिपृच्छसि' ॥५०॥ इति श्री देवीपुराणे नन्दामहाभाग्यं नाम पञ्चनवतितमोऽध्यायः । १. अध्या येऽस्मिन् श्लोकानां संख्या षष्टिपरिमिता अंकितास्ति । २. कग पुस्तके अध्याय एष नास्ति । ३६३ 进
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy