________________
पञ्चनवतितमोऽध्यायः
भुक्त्वा तु विपुलान् भोगान् पश्चान्मोक्षो भविष्यति । एवं दत्त्वा वरं देव्या साधकस्य तु सुन्दरि ॥३०॥ गता विमानमारुह्य स्वकं यं स्थानमुत्तमम् । चन्द्रकान्तमय नन्दां प्रतिमारूपधारिणीम् ॥३१॥ पूजयन्ति कृशोदर्य कान्ताथिन्यो गृहे गृहे । मुक्ताफलमयीं देवीं सुनन्दायाः पुरे प्रिये ॥ ३२ ॥ गन्धधूपैः सुपुष्पाद्यं स्त्रिकालं पूजयन्ति ताः ।
स्फटिक शुभ्ररूपान्तु कनकायाञ्च कामिनीः ॥ ३३ ॥
श्रर्चयन्ति सदाकालं मथिता मन्मथेन
.
तु । स्वकीयैर्भुवनै दिव्यैः पूजां कुर्वन्ति ता स्त्रियः ॥ ३४ ॥ प्रलये तु समुत्पन्ने देव्याः पुरवरैः सह । विद्यते द्वे महादेवि तदा लीयन्ति देवताः ॥ ३५ ॥ अतः परं प्रवक्ष्यामि सखायानान्तु लक्षणम् । धर्मशीलास्तपोयुक्ताः सत्यवादि - जितेन्द्रियाः ॥३६॥ मात्सर्येन परित्यक्ताः सर्वसत्त्वहिते रताः । प्रियवादिनः सोत्साहा मर्त्यलोक जुगुप्सकाः ॥३७॥ परस्पर सुसन्तुष्टा अनुकूला साधकस्य तु । ईदृशैः साधनं कुर्यात् सुसरवायैः सहैव तु ॥३८॥
३६२
ब्रह्मोवाच ।
या नन्दा सा शिवः साक्षान्नन्दारूपधरः शिवः । उभयोरन्तरं नास्ति नन्दायास्तु शिवस्य च ॥ ३६ ॥ न नन्दापरमं ध्यानं न नन्दापरमं तपः । न नन्दापरमं तीर्थं शिवः साक्षात् प्रभाषते ||४०| लेख्येऽपि तिष्ठते यस्य इदं ध्यानं महातपः । तस्यापि प्रीयते देवी कि पुनमंन्त्र पूजिता ॥४१॥ ईश्वर उवाच ।
नास्तिकाय न दातव्यं न शम्भु-गुरु-निन्दके । पिशुनाय न दातव्यं देव्या भक्तिविवर्जिते ॥ ४२ ॥ गुरु-द्विज-देव-विष्णु-कन्या - गो- निन्दकेन च । दातव्यन्तु महादेवि देव्या भक्तिरतस्य च ॥ ४३ ॥ श्रन्यथा तु वरारोहे हीयते शास्त्रसन्ततिः । स्नेहाल्लोभात् प्रदानेन नरकं यान्ति रौरवम् ॥ ४४ ॥
१. श्लोकोऽयं ४६ संख्याक : वर्त्तते मूलपुस्तके ।