SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् . प्रतिमारूपधरा सा दिव्यहेममया शुभा । नानारत्नोज्ज्वला रम्या साधकानां फलप्रदा ॥१६॥ तस्याः पूर्वोत्तरे भागे वनं गीर्वाणपादपम् । अशोकबकुलश्चैव शुभस्तिलकचम्पकैः ॥१७॥ प्रियंगुनागपुन्नागैः नानापादपसङकुलैः । नाना गुल्मसमाकीर्णं नानावल्ली समाकुलम् ॥१८॥ सदा पुष्पफलोपेतं सदा षट्पदनादितम् । कोकिलारावरम्यन्तु नानापक्षिनिषेवितम् ॥१६॥ अस्य मध्ये महादेवी देव्या भवनमुत्तमम् । नानारत्नश्च विन्यस्तं नानाध्वज समाकुलम् ॥२०॥ नाना लीलावती रम्या नुपूरारावनिस्वना। दीधिकाभिः सुरम्याभिः शोभिताभिः सरोरुहैः ॥२१॥ तत्र मानवकन्यास्तु देव्याः पादप्रपूजकाः । यक्षिण्यः कामरूपास्तु गन्धर्वी किन्नरी तथा ॥२२॥ विद्याधर्य सुरूपास्तु देवीमाराधयन्ति ताम् । कामार्ता विह्वला नित्यं भर्तारं प्रार्थयन्ति ताः ॥२३॥ अनेक सिद्धिसंकीर्ण देव्यायाः स्थानमुत्तमम् । देव्या विमानमारुह्य आगता कनकेश्वरी ॥२४॥ जटामुकुट रत्नाढ्या भस्मीद्धूलित विग्रहा। पञ्चमुद्रासमोपेता नानारत्नविभूषिता । महाव्रतधरा देवी आगता यत्र साधकाः' ॥२५॥ देव्युवाच । स्वागतं ते महाराज वीरसत्त्व महातपः । मदीयं भवनं वत्स नानासिद्धि समाकुलम् ॥२६॥ विचित्रमणिना कीर्ण देवानामपि दुर्लभम् । यदि तिष्ठसि अत्रैव दिव्यश्वर्य समाकुले ॥२७॥ पातालयोषितो गृह्य यक्षिणी वाथ रूपिणीम् । किन्नरों वाथ गृह्य विद्याधरीमथापि वा ॥२८॥ खड्गं वा रोचनां वापि गुडिकां वापि पादुके । अष्टधा दिव्यसिद्धिनामेकां गृह्य यथेप्सया ॥२६॥ १. अस्य श्लोकस्य संख्या त्रिंशत् इति वर्तते ख पुस्तके ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy