________________
पंचनवतितमोऽध्यायः ।
उमोवाच ।
सुनन्दायाः पुरं रम्यं श्रुतं मे परमेश्वर । अधुना श्रोतुमिच्छामि कन्यकायाः कथय प्रभो ॥१॥ ईश्वर उवाच ।
कन्यकायाः पथं देवि कथयामि समासतः । शाक-यावक पयो- वायु- लघ्वाहारो प्रथापि वा ॥२॥ होमयेल्लक्षमेकन्तु पद्म-विल्व-समन्वितम् । ततो गच्छेन्महावीरः पूर्वोक्तन पथेन तु ॥३॥
ना मन्त्रपदानि भवन्ति । श्रोम् नन्द निनन्द किलि किलि स्वाहा ॥४॥
इमां विद्यां जपं कुर्यात् ततः सिद्धिः प्रजायते । पूर्वोक्त ेन विधानेन मुद्रा नित्यं प्रकल्पयेत् ॥५॥ ततस्तु कारयेद्धौमं गुडिकैर्गुग्गुलस्य तु । प्रयुतमेकं महादेवि ततः सिद्धिः प्रजायते ॥ ६ ॥ पूर्वमेव एषो लक्षान् जप्त्वा होमं प्रकल्पयेत् । होमान्ते दर्शनं रात्रौ सिद्धिस्तस्य प्रजायते ॥७॥ ततो गच्छेत् मेधावी साधकैः सहितः पथि । देव्याश्रमपदं प्राप्य चरु तत्र प्रसाधयेत् ॥८॥ भागं चतुष्टयं कृत्वा देवि अग्निशिवात्मनि । श्रात्मभागं ततो मन्त्री साधकैः सह भक्षयेत् ॥६॥ विज्ञापयेत् ततो देवीं प्रणिपत्य पुनः पुनः । श्रहं दुःखान्तरे भीतस्तामेव शरणं गतः ' ॥१०॥ देहि मे त्वं पथं देवि विघ्नेन महेश्वरि । एवं विज्ञाप्य देवेशीं स गच्छेदुत्तरां दिशम् ॥११॥ शरक्षेपत्रयं गत्वा दृश्यते शैलमुत्तमम् । शुद्धस्फटिकसङ्काशा प्रतिमा तत्र तिष्ठति ॥१२॥ नमस्कृत्वा तु गन्तव्यमै शान्यां दिशि संस्थितम् । धन्वन्तरशतं गत्वा अर्धचन्द्राकृतिः शिला ॥१३॥ तत्र मातृ गृहस्थैव उत्तरा दिशि तिष्ठति । नमस्कृत्वा तु गन्तव्यं यावद् दृश्यं नभः स्थलम् ॥१४॥ करवीरवनं तत्र हेमपुष्पं सुगन्धि च । षट्पदारवरम्याढ्या बिषय भूम्या व्यवस्थिता ॥ १५॥
१. एकादश संख्याक: श्लोकोऽयं ख पुस्तके अस्ति ।