SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् ३५६ देव्युवाच । स्वागतं ते महावीर साधकस्त्वं कृतो मया । एवं सम्भाषिता देव्या साधकास्तु महात्मनः ॥५३॥ तत्क्षगादेव जायन्ते साधका दिव्यरुपिणः । इयं दिव्यपुरी वत्स चन्द्रवत्या समन्विता ॥५४॥ क्रीडस्व मत्प्रसादेन यावच्चन्द्रदिवाकरौ । तदन्ते भवते मोक्षो मत्प्रसादेन पुत्रक ॥५५॥ देवानान्तु यथा रुद्र अतिरस्कृतशासनः । तथैव भवने मह्य क्रीडय त्वं यथासुखम् ॥५६॥ एवं दत्त्वा वरं देवी साधक स्य सुरेश्वरि । नमस्कृत्वा ततो मन्त्री प्रविवेश सुरोत्तमम् ॥५७॥ मंगलैः स्तूयमानस्तु गीतवाद्यमनोरमैः । चामरैर्बोज्यमानस्तु स्कन्दतुल्य-पराक्रमः ॥८॥ पुष्पयानं समारुह्य क्रीडते भवनोत्तमे । योजनानां सहस्रन्तु भवनस्य च विस्तरः ॥५६॥ सहस्रकोटिकन्यानां समन्तात् पूरितं पुरम् ॥६०॥ इति श्री देवीपुराणे सुनन्दाप्रवेशविधिर्नाम चतुर्नवतितमोऽध्यायः । १. पुस्तके श्लोकसंख्या अष्टषष्टिपरिमिता वर्तते । २. क ग पुस्तके अध्याय एष नास्ति । .,
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy