________________
चतुर्नवतितमोऽध्यायः
पद्मरागोपरिच्छन्नं पताकैरुपशोभितम् । स्वयं तिष्ठति तत्रैव महाकालगणाधिपः ॥ ३८ ॥ साधकञ्चागतं दृष्ट्वा स्वागतन्तु वदत्यसौ । श्रथ नन्दी वदेद्वाक्यमुपवेशाय साधकन् ॥ ३४ ॥ पृच्छामि प्रम्बिका यावत् तावत् तिष्ठ महातपः । ततः शीघ्रं गतो नन्दी सुनन्दायाः समीपतः ॥ ४० ॥ नन्दी उवाच
श्रागतो मत्यों लोकेऽस्मिन् तव
३५८
पार्श्व महेश्वरि ॥४१॥
सुनन्दा उवाच
चम्पकाकारवपुषः
श्रागच्छन्तु महानन्दी मम भक्तिपरायणः । देव्यायाः वचनं श्रुत्वा ततो नन्दी समासतः १ ॥४२॥ साधकस्येदं वाक्यं वदन्नन्दी सुभावितम् । धन्योऽसि भो महावीर एहि गच्छाम साधक ॥४३॥ श्रध्यं पाद्यं ततो गृह्य कन्या निर्गत्य वेश्मनि । केयूराभरणैदिव्यं मणिकुण्डलभूषिता ॥ ४४॥ कर्णान्तायतलोचनाः । नीलोत्पलदलश्यामा नानालंकारभूषिताः ॥४५॥ रक्ताम्बरधरा काचिच्छुक्लाम्बरधरापराः । पीताम्बरधरा चान्या पूर्णचन्द्रनिभाननाः ॥ ४६ ॥ सर्वा यौवनसम्पन्नाः सर्वाः पीनपयोधराः । सर्वास्ताः कामरूपिण्यः सर्वांस्तामृतसम्भवाः ॥४७॥ याश्चान्याश्चापरास्तत्र निर्गताश्च समन्ततः । गेयैश्च मधुरै दिव्यं मण्डलेश्च मनोरमैः ॥ ४८ ॥ चामरैः कनकदण्डैश्च मणिरत्नमयैदृढः । चामरहस्तातथा काचित् पुष्पहस्तास्तथापरा ॥४६॥ मदार्त्ता मुदिताः सर्वाः ईक्षन्तेह निमिषेक्षरणाः । पूज्यन्ते साधकास्तत्र अध्यंपाद्यश्च मंगलः ॥ ५० ॥ ईष्टा तुष्टमनाः सर्वा श्रवगूहन तत्पराः । ततस्तु साधकं गृह्य प्रवेशयन्ति तत्पुरम् ॥५१॥ विज्ञापयेत् ततो भक्त्या त्वं गतिः शरणं मम ।
ततो देवी वदेद्वाक्यं प्रसन्न वदनोज्ज्वला ॥५२॥
१. बंगला पुस्तकें पद्ममिदं ४६ संख्याकं बर्त्तते । २. मूलपुस्तके ५६ संख्याकं पद्यमिदं वर्त्तते ।