________________
३५७
देवीपुराणम् प्रतः परं प्रवक्ष्यामि देव्या सिद्धि निषेवितम् । तावद्गच्छेन्महातीर्थ यत्सुरैरपि दुर्लभम् ॥१७॥ गङ्गातीरे महादेवी पश्यते मरुकेश्वरम् । तत्र गत्वा तु मेधावी त्रिरात्रं कारयेद् बुधः ॥१८॥ त्रिरात्रे चैव सम्पूर्णे प्रणिपत्य महेश्वरम् । उत्तराभिमुखो भूत्वा व्रजेदोशानगोचरम् ॥१९॥ ऊर्ध्वयानं ततः पश्येन्नदीवामे शिलोच्चयाः । पितृणामुदकं दत्त्वा कालकूटं व्रजेत्ततः ॥२०॥ कलहंसेश्वरं नाम शम्भोरायतनं महत् । तत्रादिपूजां कृत्वा तु प्रणिपत्य पुनः पुनः ॥२१॥ कौशिकायां पुरः स्नात्वा मुच्यते नरः किल्बिर्ष : । शूलभेदं ततो गच्छेत् तत्सुरैरपि दुर्लभम् ॥२२॥ तत्रापि पूजां कृत्वा तु एकचित्तस्तु साधकः । तद्वसन्भवनं गच्छेत् केदारं यत्र क्रीडितम् ॥२३॥ लोकदृष्टेन मार्गेण स गच्छेत् कार्तिकं पुरम् । गुह्य श्वरं नमस्कृत्वा गच्छेद्वैश्रवणं पुरम् ॥२४॥ बजेन्नदेश्वरं देवमहोरात्रन्तु कारयेत् । भागं चतुष्टयं कृत्वा देवाग्नि-गुरु-प्रात्मनि ॥२५॥
भक्षयित्वा ततः प्राज्ञो गच्छेत् तदुत्तरां दिशम् ।
ततो वैतरणीं गत्वा स्नात्वा तु विधिवत् क्रमात् ॥२६॥ देवानामुदकं दत्त्वा पिण्डं पितृषु दापयेत् । महाविनायकं दत्त्वा पूजां तस्य प्रकल्पयेत् ॥२७॥ देव्याश्रमन्तु संप्राप्य नमस्कृत्य महेश्वरम् । पूर्वभागे तु कुण्डस्य ऐशानी दिशमाश्रितः ॥२८॥ सुनन्दाया शिला तत्र जलमध्ये प्रतिष्ठिता। पुष्पर्गन्वैस्तथा धूपैः पूजयेत् परमेश्वरीम् ॥२६॥ नन्दा कुण्डं ह्रदं तत्र प्रविशेत्तत्र साधकः । नन्दादेवीं नमस्कृत्य ततो विज्ञापयेद् वुधः ॥३०॥ अनिवर्त्तपथं देवी देहि मे परमेश्वरि । ततः समीपतो गच्छेद शिवेन पूर्वचोदितम् ॥३१॥ कृताञ्जलिपुटोः भूत्वा प्रविशेत विचक्षणः । धन्वन्तरप्रमाणं तु विशेन्मत्स्यवद्र तम् ॥३२॥ प्रविश्याभ्यन्तर वीर ऐशानीदिशमाश्रितः । धन्वन्तरत्रयं गत्वा श्रीमुखं तत्र पश्यति ॥३३॥ प्रविशेत् तज्जलान्तस्थं श्रीमुखं द्वारमुत्तमम् । धन्वन्तरशतं गत्वा पश्येदामलकं मम् ॥३४॥ तत्फलं भक्षयेत् प्राज्ञो नमस्कृत्वा महेश्वरीम् । तत्फलं भक्षमात्रण वलिपलित वज्जितः ॥३५॥ बलं नागसहस्रस्य तत्क्षणादेव जायते। धन्वन्तरशतं गत्वा प्रविशेत ततोऽधिकम् ॥३६॥ दृश्यते मण्डपं रम्यं शुद्ध हेममयं महत् । शुद्धस्फाटिकस्तम्भाढ्यं चतुरिं महापुरम् ॥३७॥
१. खपुस्तके ३४ इति संख्याकः श्लोकः ।