________________
चतुर्नवतितमोऽध्यायः।
उमोवाच । मन्दा देव्याः पुरो देव श्रुता मे परमेश्वर । अधुना श्रोतुमिच्छामि सुनन्दायाः पुरोत्तमम् ॥१॥ किं प्रमाणं च कन्यानां प्रवेशञ्च पुरस्य तु । केन मार्गेण गच्छन्ति नरा ये भावितात्मनः ॥२॥ केन वा तुष्यते देवी कथं प्रत्यक्षतां भवेत् । विधिरेष समाख्याहि मम कौतुहलं प्रभो ॥३॥
ईश्वर उवाच।
. . सुनन्दाया पुरो रम्या अनौपम्या सुरेश्वरि । तथापि कथयिष्यामि तव कौतुहलं प्रिये ॥४॥ नानारत्नोपशोभाढ्या नानाभरणभूषिता । नाना रत्नोज्वला देवी नानामेखलयोजिता ॥५॥ रत्नसोपानपंक्तिभिः सुचित्रा तु विराजते । नानाशय्यासनाकीरणे नानाचामरशोभितः ॥६॥ नानावस्त्रवितानश्च नानाविमानसंकुला । नानाकवाट-विन्यस्ता नानास्तम्भसमन्विता ॥७॥ नानाध्वजोच्छ्रिता रम्या नानाघण्टानिनादिता। नानादर्पणविन्यस्ता नानास्रग्दामभूषिता ॥८॥ नानावर्णरजः कीर्णा रम्या हेमवती मही । न निम्ना नोन्नता चापि सुखपादप्रचारदा ॥९॥ नानासरित्समाकीर्णा नानानिर्भरकाश्रिता । नानापक्षीगणाजुष्टा हेमद्र मलताकुला ॥१०॥ नानापुष्पफलोपेता सुन्दरोभिरलंकृता । कामकामुकसंघुष्टा सायकैविध्वस्तचेतसः ॥११॥ स्तनोरसि च भराक्रान्ता प्रस्खलन्ति पदे पदे । कामेन सहसालापं नित्यं कुर्वन्ति योषितः ॥१२॥
कन्यका ऊचुः । पातालपुरसुन्दर्यः किं प्रयुक्तास्रिलोचन । यथा कामं दहस्वेति एवं विध्वंसि निर्दय ॥१३॥ अल्पानि होनसत्त्वानि अंगनानां मनोभवः । म्लेच्छापि न प्रहरन्ति मुक्त्वा त्वां मकरध्वजन् ॥१४॥ कान्तं ध्यात्वा कृशोदर्यः एकमेवाभिगृह्निताः । भवन्ति लज्जिता भूयो अवसाने सुरेश्वरि ॥१५॥ अनेन मदनार्तास्तु सुनन्दायाः पुरे प्रिये । कथिता यादृशी आत्तिर्योषितानान्तु सुन्दरि ॥१६॥