________________
देवीपुराणम्
३५५
द्विभुजां बालरूपान्तु रक्ताम्बरधरां सदा । वीणागृहीत हस्तां तु नानालंकार भूषिताम् ॥ २८४ ॥ स्वाभिधानाभिधेयाञ्च भूत्याशश्चैव प्रपूजयेत् । शुक्लाम्बरधरा हृष्टा दक्षिणे वरवर्णिनी ॥ २८५॥ पश्चिमे पीतरूपा तु उत्तरा वृषरूपिणी । रूपयौवनसम्पन्ना दिव्याभरणभूषिता ॥ २८६॥ श्राज्ञां प्रार्थयमानस्तु देवीनां तद्गता प्रिये ।
प्रतिभूत्वा सदा कुर्यात् कृताञ्जलि पुरा स्थिता || २८७ ।।
स्वनामः पूजयेद्देवीं वेदिकाद्यं व्र्व्यवस्थिताम् । पश्चिमायां जयां देवीं वरदाभयपाणिनीम् ॥२८८॥ नन्दानन्दकरी देवी भवते साधकस्य तु । लोकपालान् स्वनामंस्तु अस्त्रांश्चैव प्रपूजयेत् ॥ २८६ ॥ प्रतिभावं यदा मन्त्री मन्त्रेण सह कारयेत् । फलं न विद्यते तस्य प्रभुत्वेन यदा स्थितः ॥ २६०॥ आत्मानं प्राकृतं मन्येत् मन्त्रं मन्येद् यथा शिवम् । विधिरेष समाख्यातः कार्यश्चैव तु साधकैः | २६१ | दिव्यप्राकृतभावेन पूज्यमाना महाधिपे । हृदये भव देवेशि अन्यथा तु नासिद्धिदः ॥ २६२ ॥ पूजाकाले तु कर्त्तव्यमदाने मन्त्ररूपिणम् । श्रन्यथा यत्तु देवेशि विघ्नः स परिभूयते ॥२९३॥ एवं कृत्वा महायागं सर्वसिद्धिप्रदायकम् । श्रतः परं प्रवक्ष्यामि मुद्रालक्षणमुत्तमम् ॥ २६४॥ अंगुलाग्रस्थिताः सर्वा अंगुष्ठेव ततोपरि । नमस्कारा स्मृता मुद्रा देव्याः सान्निध्यकारिका । नया विधिना देवि देव्याः सान्निध्यतां व्रजेत् ॥ २६५ ॥
इति श्री देवीपुराणे नन्दाप्रशंसानाम त्रिनवतितमोऽध्यायः' ।
१. क पुस्तके १६० या त्वदेव श्लोकाः सन्ति ।