________________
३५४
त्रिनवतितमोऽध्यायः
नन्दाभक्तजने भक्ता नन्दायात्र कतत्पराः । नन्दामन्त्ररता नित्यं ब्रतयोगरताश्च ये ॥ २६२॥ पतयस्ते भविष्यन्ति कथकानान्तु सुब्रते । जल प्राकारदुर्भेद्य हिमप्राकार रक्षितम् ॥ २६६॥ चन्द्रनाग प्रतीहारं देव्या श्राज्ञा महल्लकम् । अन्तःपुरतरं दिव्यमसुरेश्वरदुर्लभम् ॥ २६४॥ नन्दाभक्तजनैर्भोग्यं निजमन्तःपुरमिव । श्रतः परं प्रवक्ष्यामि मन्त्रोद्धारस्य लक्षणम् ॥२६५॥ यजनञ्चैव देवीनां रुपकञ्च महातपे । पवर्गात् पंचमे वर्गे वाजञ्चैव तदन्तिमम् ॥ २६६ ॥ उच्चरेत प्रयत्नेन भिन्नं वैहायसेन तु । पुनस्तु मध्यमं बीजं तृतीयं स्वरभेदितम् ॥ २६७॥ पुनः प्रथमं दातव्यं भिन्ना वैहायसेन तु । एकादशेत संभिन्नं बीजं कुर्याद्वरानने ॥ २६८ ॥ तस्यापि परमं देवि उद्धरेत्प्रथमं पुनः । तृतीयं भूतजे नैव प्रधस्थो न तु याजयेत् ॥ २६६ ॥ पुनद्वतीयभूतस्थं भेदयेकादशेन तु । तस्यापि परतरे वर्गे प्रथमन्तु समुद्धरेत् ॥२७०॥ पुनश्चतुर्थभूयस्थं बीजं यत्नेन उद्धरेत् । कालक्षान्तं ततो बीजं भेद एकादशेन तु ॥ २७९ ॥ नत्राक्षरा महाविद्या नन्दाया हृदयं प्रिये । सर्वकामफलप्रदा नित्यं विद्ययन्तु महातपे ॥ २७२ ॥ अक्षरं युग्मायुग्मञ्च अंगानि तु प्रकल्पयेत् । नवमन्तु भवेदत्र कालाख्यं सविसर्गजम् ॥ २७३ ॥ नया जप्यमानस्य कन्यकास्तु महातपे । नित्यं कुर्वन्ति श्रानन्दं नन्दायास्तु पुरोत्तमे ॥ २७४॥ निमेषे क्षरणा नित्यं रत्नं पश्यन्ति साधकाः ।
दर्शनेनोत्सुकाः सर्वाः कामार्त्ताः कामिनीः प्रिये ॥ २७५॥
श्रतः परं प्रवक्ष्यामि देव्याया यजनं शुभम् । साधकानां हितार्थाय तन्मे निगदतः शृणु ॥२७६॥ अनन्तमासनं कृत्वा धर्मादीश्च निवेशयेत् । ततः प्रकल्पयेत् पद्ममासनं प्रणवेन तु ॥ २७७॥ अनन्तादीनि देवेशे प्रणवेन प्रकल्पयेत् । तत श्रावाहयेद्देवीं मूलमन्त्रेण सुब्रते ॥२७८॥ शुक्लाम्बरधरां सौम्यां जटामुकुट मण्डिताम् ।
नानालंकारशोभायां सितभस्मावगुण्ठिताम् ॥ २७६ ॥
प्रभवरप्रदा देवीं वरहस्तां चतुर्भुजाम् । नानापुष्पैस्तथा भक्ष्ये लेह्य बोध्यैश्व ईप्सितैः ॥ २८० ॥ पूजयेत् परया भक्त्या महाभोगजिगीषया । अंगानि पूजयेत् पश्चात् हृदयं वह्निगोचरः ॥ २८२॥ श्राग्नेयान्तु शिरः पूज्य नैऋत्या पूजयेत् शिखाम् । कवचं परमे भागे ऐशान्येऽस्त्रं प्रपूजयेत् ॥ २८२॥ पूर्वपत्र जया स्थाप्या विजयां दक्षिणे न्यसेत् । अजितां पश्चिमे पत्र उत्तरे अपराजिताम् ॥ २८३॥