________________
३५३
देवीपुराणम्
अप्सरा उचुः ।
एहि वीर महासत्त्व प्रविशाभ्यन्तरे पुरे । तुष्टा तु ते महादेवी वरं तुभ्यं प्रयच्छति ॥ २४५॥ कन्यानां वचनं श्रुत्वा साधकस्तिष्ठते ततः । कृताञ्जलि पुरो भूत्वा प्रविशेद् भुवनोत्तमम् ॥ २४६॥ दण्डवत् पतितो भूम्यां देव्याग्र े च व्यवस्थितः । सगद्गदं वदेद्वाक्यं किञ्चिदाकुलितेक्षणः ॥ २४७ ॥
साधक उवाच ।
त्वं गतिः शरणं देवि त्वं माता परमेश्वरि । श्रहं जन्मान्तरे क्षीणस्त्वामेव शरणं गतः ॥ २४८ ॥
देव्युवाच ।
स्वागतं भद्र भद्र ं ते वरं मे ब्रूहि सुब्रत । एवं सम्भाषितो देव्या साधकः पुण्यकर्मकृत् ॥ २४६ ॥ मुक्त्वा तु मानुषं देहं विद्याभररण भूषितः । बालार्काणां सहस्रस्य कान्तिर्वै धारयति सः ॥ २५० ॥ सुरूपः सुभगः सौम्यः महाबलपराक्रमः । इदं रत्नपुरी दिव्या सर्व काम - फलप्रदा ॥२५९॥ साधकत्वं प्रसादेन क्रीडयस्व यथासुखम् । स्कन्दतुल्यबलो भूत्वा यावदाहूतसंप्लवम् ॥ २५२॥
साधक उवाच ।
- त्वन्मुक्तश्च भविष्यामि जन्मदुःखविवर्जितः ॥ २५३॥
देव्युवाच ।
कोटिमेकन्तु कन्यानां तव दत्तन्तु साधक । प्रयुतद्वयं तु शेषाणां कन्यकानान्तु कल्पितम् ॥ २५४॥ देव्याः पादाम्बुजं वत्स साधकः पुण्यकर्मकृत् । गतो व साधकैः सार्धं स्तूयमानस्तु मंगलैः ॥ २५५ ॥ वरं दत्त्वा महादेवी साधकस्य महेश्वरी । प्रविश्य भवनं दिव्यं यत्सुरैरपि दुर्लभम् ॥ २५६ ॥ ततः कलकला शब्दैः कन्यकानां पुरोत्तमे । न श्रूयते पुरे किञ्चिन्नाना वादित्र निःस्वनः ॥ २५७ ॥ परिष्वजन्ति ताः कन्या भ्रमरा इव पंकजम् । नानाक्रीडासमायुक्ता दिव्यस्त्री परिवारिताः ॥ २५८ ॥ क्रीडन्ति साधकास्तावत् यावदाहूतसंप्लवम् ॥ २५६॥ ईश्वर उवाच ।
कथयामि महादेवि यथा भुञ्जन्ति ताः स्त्रियः । नन्दापादार्जनसक्ता नन्दास्मरणतत्पराः ॥ २६०॥ नन्दाध्यानरता दित्यं नन्दाभक्ति समन्विताः । नन्दास्मरणसन्तुष्टा नन्दादानैकतत्पराः ॥ २६१॥