________________
३५२
त्रिनवतितमोऽध्यायः
पद्मरागपरिच्छन्नं चामररुपशोभितम् । सिंहासनन्तु देव्याया न्यस्तं हेममयं शुभम् ॥२२॥ दर्पणैरर्ध चन्द्रश्च मौक्तिकाहारभूषितम् । अनौपम्यं महादेवि रत्नाकरमिवोत्थितम् ॥२३०॥ ईदृशं मन्दिरं दिव्यं नानाधातुविचित्रम् । तस्मिस्तु मण्डपं प्राप्य कन्या वचनमब्रवीत् ॥२३१॥ अस्मिस्तु मण्डपे वीर निमेषं तिष्ठ सुव्रत । स्वयमागच्छते देवी वरं तुभ्यं प्रयच्छति ॥२३२॥
एवमुक्त्वा ततः कन्याः प्रविशन्ति पुरोत्तमम् । कृतञ्जलिपुटाः सर्वाः कन्याः वचनमब्र वन् ॥२३३॥
___ कन्यका उचुः । प्रागता मा लोकेऽस्मिन् द्वारे तिष्ठन्ति साधकाः ।
शरणागता महादेवि जयादेव्या प्रवेशिताः ॥२३४॥ तासां तद्वचनं श्रुत्वा कन्यकानां सुरेश्वरि । सिंहयुक्त रथं दिव्यं स्वयमारुह्य निर्गताः ॥२३५॥
कन्याकोटि सहस्रन्तु देव्या सह विनिर्गतम् । काश्चिद् गच्छन्ति वै हृष्टाः काश्चिद्वीजन्ति चामरैः ॥२३६॥ नृत्यन्ति कन्यकाः काश्चिद् काश्चित्स्तोत्र पठन्ति च ।
नानावाद्यरताः काश्चित् नानागीतरतास्तथा ॥२३७॥ काश्चिज्जयजया शब्दैः स्तुवन्ति परमेश्वरीम् । परिवारिताः कन्यैश्च भागता मण्डपे शुभे ॥२३८॥ प्रविष्टो मण्डपे देव्याभ्यन्तरे भुवनेश्वरी । सिंहासनोपविष्टस्तु श्वेतपद्मोपरिस्थिता ॥२३६॥ जटा मुकुट विन्यस्ता भस्माकुलित विग्रहा। ललाटनयनोपेता श्रवणायतलोचना ॥२४०॥ पूर्णचन्द्रानना देवी पयोधरभरालसा । सुनितम्बा सुमध्या च सर्वावयवशोभिता ॥२४१॥ भूषिता पट्टमाणिक्य दिव्यगन्धानुलेपना । सितस्रग्दामवस्त्र श्च शोभाढ्या मृदुभाषिणी ॥२४२॥ स्वकान्तिकिरणौघेन पुरीमुद्योत्य संस्थिता ॥२४३॥
श्रीदेव्युवाच । प्रवेश्य साधकान् सर्वानासनं चैव दीयताम् । देव्यास्तद्वचनं श्रुत्वा अप्सरा निर्गता द्रुतम् ॥२४४॥