________________
देवीपुराणम् ।
३५१
जयोवाच । आगतो मर्यो लोकेऽस्मिन् द्वारे तिष्ठति साधकः । क्रियते साम्प्रतं किन्तु प्रादेशं वद अम्बिके । विहस्य भगवती नन्दा इदं वचनमब्रवीत् ॥२१४॥
देव्युवाच । यथा ते पादपद्मन्तु मदीयं हृदये कृतम् । ममापि च तथा भद्र साधका हृदये स्थिताः ॥२१५॥ मा विधारय तान् द्वारे त्वरितन्तु प्रवेशय । इष्टातुष्टमना देवि जया त्वरितमागता ॥ __ आगत्य साधकस्य तु समीपस्था प्रभाषते ॥२१६॥
जयोवाच । भो भो वीर महासत्त्व तुम्यं देवी वरप्रदा । ततस्तु विदितं वीर अप्सरैर्भक्तवत्सलैः ॥२१७॥ ईष्टातुष्टमनाः सर्वाः निर्गताश्च वरांगनाः । चामरैः कनकदण्डेश्च छत्रैर्मणिविभूषितैः ॥२१॥
अय॑हस्तास्तथा चान्याः पुष्पहस्तास्तथा पराः।
प्रागच्छन्ति ततः कन्या दिव्यालंकारभूषिताः ॥२१६ ॥ कुंकुमागुरूगन्धेश्च लिप्तांगाः सुमनोहराः। तिलकैरर्धचन्द्रश्च हेमरत्नविभूषिताः ॥२२०॥ नानालंकारसम्पन्नाः सर्वाः पीनपयोधराः । पद्मांकवपुषः सर्वाः प्रियंगु चम्पकादयः ॥२२१॥ नीलोत्पलदलश्यामा अन्या विद्य त्समप्रभाः । कामरूपास्तथा चान्या गजेन्द्र गतिविक्रमाः ॥२२२॥
पूर्णचन्द्राननाः सर्वाः सर्वास्तामृतसम्भवाः । अध्यं पाद्यं ततो दत्त्वा भाष्योत्फुल्ललोचनाः ।
स्वागतं ते महावीर एहि गच्छाम साधक ॥२२३॥ एवमुक्त्वा ततः कन्या प्रविशन्ति पुरोत्तमम् । हेमप्राकारदीप्तं तं मणितोरणनुपुरम् ॥२२४॥ दिव्यगन्धर्वगानाढ्यं दिव्यवाद्यसमाकुलम् । इन्द्रनीलपरिच्छन्नं बालार्कायुतसंप्रभम् ॥२२५॥ ध्वजमालाकुलं सर्व मयूरच्छत्रभूषितम् । पद्मरागमय स्तम्भैः क्वचित् स्फाटिकमयः शुभैः ॥२२६॥ विद्रुमाढ्यैस्तथा चान्य नानारत्नमयस्तथा । मुरज वाद्यशब्दश्च शंखकाहलनिःस्वनैः ॥२२७॥ गेयश्च मधुरैदिव्यैः श्रोत्र न्द्रिय मनोहरैः । कन्यानां गीतशब्देन नित्यं प्रमुदितं परम् ॥
• दृश्यते मण्डपं रम्यं नागदण्ड विभूषितम् ॥२२८॥