________________
३५०
विनवतितमोऽध्यायः
पूजां कृत्वा विधानज्ञो यावत् प्रगतविग्रहः । तावत् तं गगने देवी विमानस्था सवासवा ॥१९३॥ अभिनन्दते तं धन्यं नरेन्द्र पुण्यभाजनम् । नन्दादेव्याश्चरणाब्जं येन दृष्टं सुदुर्लभम् ॥१९४॥ सर्वपापविनिर्मुक्तः शाश्वतं भुवनोत्तमम् । अनेनैव तु देहेन देव्याः पुत्रन्तु जायते ॥१६५॥ कात्तिकेयसमो भूत्वा महावीर्यपराक्रमः । तिष्ठते सूचितं कालं मत्प्रसादेन सुव्रतः ॥१६॥
___ तदन्ते व्रजते मोक्षं भुक्त्वा भोगान् यथेप्सितान् ।
देव्या दक्षिणमुखो भूत्वा मूलमंत्र जपेद् वुधः ॥१९७॥ दर्शनं जायते तस्य साधकस्य न संशयः । शुक्लाम्बरधरां नारों रात्रौ पश्यति साधकः ॥१८॥
तां दृष्ट्वा जायते सिद्धिरणिमादिगुणाष्टकम् ।
देव्याः प्रदक्षिणां कृत्वा कुण्डस्य च विशेषतः ॥१६॥ ध्यात्वा देवी ततः कुण्डे प्रविशेन्मत्स्यवज्जले । पौरुषत्वं जले तत्र त्रासं नैव तु कारयेत् ॥२००॥ पश्यते क्षणमात्रेण स्त्रीमुखं द्वारमुत्तमम् । नानारत्नमयं दिव्यं हेमप्राकार तोरणम् ॥
मण्डपे तिष्ठते देवी द्वारस्याने सुशोभने ॥२०१॥ पूर्णकुम्भाश्च सौवर्णाश्च जलपल्लव मण्डिताः । निर्मिता विश्वकर्मेण सर्वरत्नमयाः शुभाः ॥२०२॥ मणिहेममयः स्तम्भविमानैर्ध्वज शोभितः । मौक्तिकदाम मालाभि मणिमालाभिर्मालितम् ॥२०३॥ घण्टाचामर शोभाढ्यमातपत्र विभूषितम् । सौवर्णा मुरजास्तत्र तिष्ठन्ते मेघनिस्वनाः ॥२०४॥ इन्द्रनीलपरिच्छन्नं विचित्रमणि चचितम् । शालभजिक पुष्पैश्च रत्नपंकज शोभितम् ॥२०५॥ परिजातक मालाभिः समन्तात् परिवारितम् । नन्दा भगवती देवी प्रतिमारूप धारिणी ॥२०६॥ तिष्ठते मण्डपद्वारे सहस्रभुजभूषिता । सर्वायुधधरा सौम्या पुष्पमाला विभूषिता ॥२०७॥ दिव्यगंधानुलिप्तांगी कुंकुमारुणविग्रहा । कुण्डलैः कटकैयूरैर्मुकुटादिविभूषिता ॥२८॥ तां दृष्ट्वा तु महादेवी प्रतिमारुपधारिणीम् । तस्या प्रदक्षिणं कृत्वा प्रणिपत्य शिवेन तु ॥२०६॥ तस्याने तिष्ठते चान्या जया च प्रतिहारिका । दृष्ट्वा तु साधकं वीरं इष्टस्तुष्टो प्रभाषते ॥२१०॥ स्वागतं ते महावीर पुण्यभाजो महातपाः । तिष्ठन्तु साधका अत्र यावत्प्रत्यागममहम् ॥२११॥ पृच्छामि भगवती देवी तुभ्यञ्चैव प्रवेशनम् । एवन्तु वदते देवी जया द्वारस्य पालिका ॥२१२॥ गता शीघ्रन्तु देव्यायाः समीपं वरणिनी । जानुभ्यां धरणीं गत्वा जया वदति हर्षिता ॥२१३॥