________________
देवीपुराणम्
३४६
अनेन तुष्यते देवी नन्दा चानन्दचारिणी । वस्त्रं पत्रं तथा भक्ष्यं फलं पुष्पं विलेपनम् ॥१७३॥ नानालङ्करणं देवि यत्किचिज्जलदायिकम् । नन्दामुद्दिश्य दातव्यं तुष्यते तेन सा प्रिये ॥१७४॥ अतः परं प्रवक्ष्यामि सिद्धिस्थानानि यानि तु । यस्मिन्नाराधिता देवी क्षिप्रं भवति सिद्धिदा ।१७५॥ मन्दारं शतशृगञ्च त्रिकूट पर्वतं तथा । विन्ध्ये गंगासरिद् यत्र रेवती यमुनापि वा ॥१७६॥ पयोष्णी अश्वरथ्ये तु अथवा कुण्डलेश्वरे । शंकरेश्वर रामेशे अथवा अमरेश्वरे ॥१७७॥ सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा। स्थानेष्वेषु जपं कुर्यान्नन्दा तदगतमानसः ॥१७८॥ वेत्रवत्यातस्टे रम्ये हरिश्चन्द्रे तथा प्रिये । भैरवं शूलभेदञ्च चण्डीशं त्रिपुरान्तकम् ॥१७॥
प्रष्टचक्रञ्च क्रौञ्चेशं कपालाक्षाग्रनामकम् ।
- अजाविकखरोष्टाख्यं स्थानान्यन्यानि वर्जयेत् ॥१८०॥ ब्रह्मस्यापि भवेच्छिप्रमेभिः स्थानमहातपः । ऊर्ध्वगः कलहो नित्यं व्रतभंगं विनाशकृत् ॥१८१॥ शुभाभिधानकैः स्थानस्तत्र साधनमारभेत् । चतुर्थी चाष्टमी नैव नवमी वा चतुर्दशी ॥१२॥ शुक्लपक्षे तु कर्त्तव्यं देव्या यजनमुत्तमम् । ततो नन्दीश्वरो गच्छेदहोरात्रन्तु कारयेत् ॥१८३॥ स्नात्वा गंगानदी तीरे कृत्वा च उदकक्रियाम् । नन्दादेवी नमस्कृत्य सर्वपापैः प्रमुच्यते ॥१८४॥ चूभिकामगमे स्नायान्महापातकनाशने । पिण्डगंगा कुशंगंगा तत्र स्नात्वा तु मानवः ॥१८५॥
देवानां तर्पनं कुर्यात् पिण्डं पितृषु दापयेत् । घृतेन मधुना वापि सक्त न गुडविमिश्रितान् ॥१८६॥ तिलोदकं ततो दत्त्वा कुशोदक समन्वितम् ॥१८७॥ प्रोम् पितृभ्यः स्वाहा । ओं पितामहेभ्यः स्वाहा। 'पों प्रपितामहेभ्यः स्वाहा । ओं मातामहेभ्यः स्वाहा ।
ओं उमामहेश्वर वरेभ्यः स्वाहा ॥१८॥ पिण्डं दत्त्वा हेममन्त्रै प्रणिपत्य क्षमापयेत् । एवं देवि विधि कृत्वा कुलानां तारयेच्छतम् ॥१८॥ नन्दागंगां पुनः स्नात्वा मुच्यते सर्व किल्विषैः । ततो वैतरणीं गत्वा स्नानं तत्रैव दापयेत् ॥१०॥ देवानामुदकं दत्त्वा पिण्डं तत्रैव दापयेत् । महादेवं नमस्कृत्वा स गच्छेदुत्तरां दिशम् ॥११॥ महागणपतिं दृष्ट्वा पूजां कृत्वा विधानवित् । गच्छेदायतनं दिव्यं देव्या भवनमुत्तमम् ॥१९२॥