________________
त्रिनवतितमोऽध्यायः
कुरूपेण कुरुपं तु मूर्खेन तु न पूज्यते । लेखकस्य तु यद्र ूपं चित्रे भवति तादृशम् ॥१५४॥ खड्गस्य लक्षणं वक्ष्ये त्रिशिखस्य च सुन्दरि । नानाशस्त्रोद्भवं कार्यं मृदुलौहमयं पिवा ॥ १५५ ॥ स्फुटितं खण्डितं ह्रस्वं सव्रणं सन्धितं तथा । मृदुलौहे अपूज्यस्तु सन्धिते मरणं भवेत् ॥१५६॥ सव्रणेऽपि हि हृद्रोगे रेखया पातकी भवेत् । भार्या माता तथा पुत्रा म्रियन्ते खण्डितेन तु ॥ १५७ ॥ ह्रस्वेन लाघवं लोके दीर्घेणापि ह्यसिद्धिदम् । श्रन्यशस्त्रोद्भवेनापि भवते मरणं ध्रुवम ॥ १५८ ॥ पंचाशदंगुलं खड्गं त्रिशिखं च सुरेश्वरि । ईदृशं कारयेत्प्राज्ञ श्राशुसिद्धिफलप्रदम् ॥१५६॥ कृत्वा तु पूर्ववत्त्यागं शास्त्रदृष्टेन कर्मणा । श्रालभेत्सर्वद्रव्याणि खड्गाद्यान् सप्त पंचधा ॥ १६० ॥ श्रथ सर्वैर्यजेद्देवीं नन्दां त्रिभुवनेश्वरीम् । शाकयावकपिण्याक क्षीराशी भिक्षादोऽपिवा ॥१६१॥ कन्दमूलफलाशी वा जपं कुर्याद्विचक्षणः । श्रन्तरितोपवासेन अथ नक्त ेन वर्जयेत् ॥ १६२॥ त्रिरात्रेण तु वर्त्तेत अथ चान्द्रायणादिभिः । होमयेल्लक्षमेकन्तु श्राज्यमिश्रन्तु गुग्गुलम् ॥ १६३ ॥ श्रथवा श्रीफलैर्वापि होमं कुर्याद्विचक्षणः । त्रिलक्षेण लभेत् खड्गं त्रिशूलं पाञ्चलक्षिकम् ॥ १६४ ॥ खड्गेन भवते राजा मध्ये खेचर चारिणाम् । त्रिशूलेन सुरेशानो भवते नात्र संशयः ॥ १६५ ॥ पूर्वमेव त्रयो लक्षान् जपं कृत्वा समारभेत् । अन्यथा तु महादेवि होमं नैव तु कारयेत् ॥१६६॥ समया सम्प्रवक्ष्यामि यैस्तुष्टिदं फलं लभेत् । शैवान पाशुपतान्वापि महाब्रतधरां पिवा ॥१६७॥ कुमारिकाश्च तदुक्तान् भोजयेत् पूजयेत् सदा ।
३४८
नादद्यात् स्त्री नायकान् भक्तान् न नारों ताडयेत् क्वचित् ॥ १६८ ॥ प्रताडयेन्न चाक्रोशं विवस्त्रं नैव कारयेत् । प्रसुप्तां नैव पश्येत ताड्यमानां निवारयेत् ॥१६६॥ मूत्रं पुरीषं कुर्वन्तीं न पश्येन्न जुगुप्सयेत् । नैव तां भूषयेन्मन्त्री यदीच्छेच्छाश्वतं पदम् ॥ १७० ॥ मज्जन्ति योषितो यत्र शौचं कुर्वन्ति यत्र वा । उद्वहन्ति जलं यत्र तत्तीर्थं पूजयेत् सदा ॥ १७१ ॥ मृद्भस्मदण्डकाष्ठानि तस्मिन् तीर्थे निवेशयेत् । सुखपादावाचरन्तु तत्तीर्थं कारयेद्बुधः ॥ १७२ ॥
२. कृद्रोणे क ।
४. अत्रारभ्य श्लोकानां शतंत्रयंग पुस्तके नास्ति ।
१. स्फाटितम् क।
३. खड्गाद्या क ।
५. अत्रारभ्य भ्रष्टनवति श्रध्यायपर्यन्तं कपुस्तके ऽपि नास्ति ।