________________
देवोपुराणम्
३४७
प्राश्रयस्तत्र कुर्वीत प्राशुसिद्धिप्रदायिके । दुष्ट' सत्त्वसमाकीणे जने भक्तिविजिते ॥१३८॥ न कुर्यादाश्रयं मन्त्री दिङ मोहो यत्र जायते । न कुर्याद्विदिशे तीर्थ स्नानपानं शिवात्मनि ॥१३॥ वापीकूपतडागं वा प्रासादं वा निकेतनम् । न कुर्यात् तृप्तिकामस्तु अनलानिले नैऋते ॥१४०॥ आग्नेय्यां मनसस्ताप्ये नैऋते क्रूरकर्मकृत् । अग्निदाहं सदा कुर्यात् अमानुषचतुष्पदाम् ॥१४१॥ वायव्यां चलचित्तस्तु प्रीयमाणे जले प्रिये । स्थानस्य पावके भागे वापीकूप तडागकम् ॥१४२॥
नैऋते पोयमानस्तु प्रात्मा न दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पति गृह णाति कामतः ॥१४३॥ प्रासादस्योत्तरे देवि वसन्ति नैव सिद्धिदाः । विदिशासु च सर्वासु छायाक्रान्तापि नो शुभाम् ॥१४४।। दक्षिणोन्नतो या क्षोणी वारुणी नैऋ तोन्नताः ।
शुभा च सिद्धिदा नित्यं साधकस्य जनस्य वा ।।१४५॥ द्रव्यांश्चैव प्रवक्ष्यामि यथा तैः पूज्यते प्रिये । नन्दा भगवती देवी सिद्धिदा साधकस्य तु ॥१४६॥ मणिरत्नमया कार्या हेमरूप्य मयापिवा । चन्दनेनापि कर्त्तव्या पादुके प्रतिमापि वा ॥१४७॥ श्रीपर्णे श्रीद्र मे चापि देवदारुमयी परा । षडंगुला च सा कार्या पादुके पूजयेत्सदा ॥१४८॥ पटस्य लक्षणं वक्ष्ये यथा सिध्यन्ति साधकाः । ग्रन्थिकेशविहींने तु अजीर्णे समतन्तुके ॥१४६॥ अस्फाटिते अच्छिद्रे तु स्थलेनैव समालिखेत् । मंगलारुपिणी कार्या जयाद्य : परिवारिता ॥१५०॥
वीणाहस्ता प्रसक्ता तू नानालंकारशोभिता । जीर्णे तु भवते व्याधिः स्फोटिते मरणं भवेत् ॥१५१॥ केशः सुशोकदं विद्यात् ग्रन्थिभिः स्खलनं भवेत् । छिद्रण उत्थितो वापि साधकस्य बलाबले ॥१५२॥ वृद्धं च व्याधिदं व्यांग दीर्घ स्थूलं कृशं तथा । वृद्धेन भवते वृद्धो व्याधिते व्याधितो भवेत् ॥१५३॥
२. शिराम्बुनि क ग
१. इष्ट ख । ३. पद्यमिदं ख पुस्तके नास्ति । ४. पंक्तित्रयंच क ख पुस्तके नास्ति ।