________________
त्रिनवतितमोऽध्यायः
स्वप्नांश्च शोभनान् देवी साधकस्य ददन्ति च ।
पूजाथिनो महावीर्याः प्रीति कुर्वन्ति साधके ॥१२४॥ प्रभावयन्ति'दुष्टात्मा वदन्ति वरदा भव । तस्य वर्षशतेनापि कुतः सिद्धिः प्रजायते ॥१२५॥
ईश्वर उवाच । महाचोद्य महादेवि अनौपम्यं सुराच्चिते । ब्रह्माद्य रपि देवेश रोदृशं न प्रचोदितम् ॥१२६॥
यथावत्कथयिष्यामि मा विषादं कुरू प्रिये ।
अघोरास्र न्यसेत् तस्मिन् स्वाद कञ्च महाबलम् ॥१२७॥ दंष्ट्र: करकरायन्तु ज्वलन्तं विदिशैदिशैः । पक्षमेकं यथा देवि यथास्थानं सुखावहम् ॥१२८॥ अय॑मानं तु तल्लिगं स्वप्नं ददति पूर्ववत् । साधिकारं तु तल्लिगमाशुसिद्धिप्रदायकम् ॥१२६॥ प्रजाविकखरोष्ट्र श्च प्रारूढां पश्यते तनुम् । उद्वेगः कलहो नित्यं सखापानान्तु जायते ॥१३०॥
कृष्णाम्बरधरां नारी रात्रौ पश्यति साधकः ।
तस्मात् किम्बहुनोक्त न तल्लिगं राक्षसालयम् ॥१३१॥ वर्जनीयं प्रयत्नेन मृत्युरोगभयावहम् । उपायं सम्प्रवक्ष्यामि मन्त्रहीने प्रतिष्ठिते ॥१३२॥ स्वयन्तु पठ्यते लोके न च तथ्येन सुन्दरि । उषरे तु यथाधान्यं स्थापित निष्फलं भवेत् ॥१३३॥ लिङगे मन्त्रविहीने तु पूजनं निष्फलं भवेत् । उपायं सम्प्रवक्ष्यामि तस्यापि मृदुभाषिणि ॥१३४॥
प्रसन्नां धारयेत्प्राज्ञ प्रावेशं वाथ पण्डितः ।
स्वयम्भुः कल्पितञ्चापि कथितं सिद्धिबलाबलम् ॥१३५॥ पवर्गाच्चतुर्थे वर्गे विपरीतसुलोचने । तस्यापि प्रथमे वर्ग आदिबीजं तृतीयकम् ॥१३६॥ प्रसन्ना च सदा देवि ईष्टानिष्टप्रसूचनी । कि वहुनोक्तन स्वयं संकल्पिते प्रिये ॥१३७॥
१. प्रतारयन्ति ग, प्रत्यापयन्ति क . २. देवेशि ग। ४. सविकारं ख। ६. रोपितम् क ग। ८. कारयेत् क ग।
३. वदन्ति क ग । ५. सखापालन्तु ख, सखापानन्तु क । ७. यजनं ग। ६. प्रवेशं क ग।