________________
देवीपुराणम् ।
३४५
देव्युवाच । साधिकारं तु यल्लिगं वेदमन्त्र : प्रतिष्ठितम् ।
निवत्तितविकारञ्च उक्त शंभं स्वयंभुवम् ॥११२।। कुर्वन्ति भक्ति वात्सल्यं लोकानां वासनात्मकम् । दुविज्ञेयमिदं ज्ञानं योगिनामप्यगोचरम् । मत्त्यैर्जडधियथि कथं विज्ञायते प्रभो ॥११३॥
ईश्वर उवाच। साधु साघु महादेवि रहस्यमिदमुत्तमम् । यत्त्वया. चोदितं भद्रे तथैव च न चान्यथा ॥११४॥ दुविज्ञेयं सुरश्चापि किं पुनर्मर्त्य जन्तुभिः । प्राधिष्टो साधकं ज्ञेयं हृदयानन्दकारकम् ॥११५॥ इन्द्रियाणां चौत्सुक्यं ददाति लिंगदर्शने । सेव्यमानं ततो लिगं नित्यानन्दप्रदायकम् ॥११६॥ सुस्वप्नो पश्यते नित्यं विमानस्थां वरांगनाम् । भैरवं पश्यते नित्यं क्रीडन्तं मातमण्डले ॥११७॥
उमामहेश्वरं वापि स्वप्ने पश्यति साधकः ।। अनिवत्ति ताधिकारञ्च लिगं च त्रिभुवनेश्वरम् ॥११८॥ अाक्रामन्ति महाविघ्नाः सदैत्याः राक्षसादयः ।
शून्यागारं यथा देवि आक्रामन्ति नराः प्रिये ॥११६॥ अनचितन्तु भुञ्जन्ति तथा लिंगन्तु कश्मलाः । प्रेतं तथा सुराध्यक्षे प्राक्रामन्ति पिशाचकाः । शून्यं च वांगलिंगन्तु आश्रयन्ति तथा प्रिये ॥१२०॥
श्रीदेव्युवाच । पर्याप्तञ्च श्रुतेनैव तव वाक्येन शंकर । विशेषोत्पादितो मह्य सुतरां गहनं कृतम् ॥१२१॥
· सूक्ष्मरूपा यदा विध्नाः राक्षसा भूतनायकाः ।
ईदृशीं तनुमास्थाय लिगं भुञ्जन्ति वै सदा ॥१२२॥ तदा तेऽपि मनोरम्यं स्थानं कुर्वन्ति शंकर । साधकस्य सदानन्दं तेऽपि कुर्वन्ति नित्यशः ॥१२३॥
२. मय॑जन्मभि क ग ।
१. मंत्रहीनं प्रतिष्ठितम् क ग । ३. आधिष्य ग। अबिष्ट क । ४. नित्यमानन्ददायकम् क ग ।
५. त्रिभुवनेश्वरि क ग।