SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३४४ विनवतिततमोऽध्यायः चित्रमाल्यधराः नित्यं चित्राभरणभूषिताः । चित्रवर्णधराः सर्वाः विचित्रगतिगामिनि ॥६६॥ नानावाद्यरता नित्यं नानागन्धर्वतत्पराः । नानाक्रीडाप्रमत्तास्तु'नानालेख्यरताः सदा ॥७॥ नाना शास्त्रार्थ संपन्ना नानालेख्यरताः स्त्रियः । अक्षीणयौवनाः सर्वा जरामृत्युविजिताः ॥१८॥ नन्दा पुरवरे कन्याः मध्यमाधमजिता ॥६६॥ , उमोवाच । रूपातिशयसम्पना नानागुणसमन्विताः । किमर्थं दुखिताः जाता कान्तसौख्यविजिताः ॥१०॥ ईश्वर उवाच । दमयन्ती यथा सीता रूपातिशयपारगा। दुःखितास्तेन संजाता कान्तसौख्य-विजिताः ॥१०१॥ अहल्या बंधको जाता गोतमस्य तु योषिता । रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥१०२॥ तस्माद्रूपंञ्च नेच्छन्ति लक्षणशास्तपोधनाः । प्रतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा ॥१०३॥ अथवा सौम्यहीनस्तु जायते तु महातपे। नन्दापुरवरे देवि कन्यकानान्तु चेष्टितम् ॥१०४॥ उदाहृतं मया भद्रे यथा पृष्ठं त्वया प्रिये । पूजास्थानानि वक्ष्यामि यस्मिन् सान्निध्यतां व्रजेत् ॥१०॥ लिगस्थां पूजयेद्दवी स्थण्डिलस्थां तथैव च । पुस्तकस्थां महादेवी पादुके प्रतिमासु च ॥१०६॥ चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् । अग्निस्थां पूजयेत्प्राज्ञो हृदये वा सुशोभने ॥१०७॥ एभिः स्थानमहादेवी पूजिता वरदा भवेत् । मम पार्श्वे श्रुतं यस्तु ज्ञातं देवि तपोधनः ॥१८॥ तेऽपि वन्द्या अहं यदृच्छिवधर्मपरायणाः । तल्लिगमाश्रयेन्मन्त्री शुक्राद्य यत्प्रतिष्ठितम् ॥१०॥ कचाद्य यंत् कृतं लिगं वर्जनीयन्तु साधकः । कल्पसौख्यप्रदं प्रोक्त वेदमन्त्रः प्रतिष्ठितम् ॥११०॥ साधिकारं तु यल्लिग मुक्तभोगं तथैव च । ज्ञातव्यं साधकेन्द्रण सिद्धिदं चाप्यसिद्धिदम् ॥१११॥ २. कपिलस्य ग। १. प्रसक्तास्तु क ग। ३. क पुस्तके नास्ति। ४. घृतं क ग। ५. साधिका वर्णयल्लिग ग।।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy