________________
देवीपुराणम्
३४३
क्वचिद्हाटकसम्भूतैः इन्द्रनीलमयः क्वचित् । रजोवतमर्यदिव्यैः क्वचिद्वज्रविनिमितः ॥७६॥ तपनीयोद्भवःपद्म: क्वचिद्विद् मसन्निभैः । सितासितैस्तथा रक्त : श्रीमुखैर्मुखरैस्तथा ॥७७॥ हंससारससंगीतः जीवं जोवक नादितः । नानापक्षिगणः रम्यैः शोभन्ते दीपिकाः सदा ॥८॥ कान्तहीना महादेवि वने च पुष्करिणीव । अशोक-बकुलै गः शुभैस्तिलकपञ्चकैः२ ॥७॥ पुन्नाग-नाग-बकुलैः पनसैब्रह्मयष्टिक । जर्बोरेबीजपूरैश्च पुष्कलैरुपशोभितम् ॥१०॥ एवमादिफलैः रम्य सुस्वादरमृतोपमः । लवलीफल-कंकोलेः लवंग-लकुचैस्तथा ॥१॥
. तमाल-पत्र-कर्पूरैः जातीफल-सदाडिमः ॥८२॥ सुरपादप-संकोणं सरल वदारुभिः । नानावल्लीसमाकीर्णं लतागुल्म-महोषधः ॥८३॥ नानापुष्पफलोपेतं नित्यं मुनिमनापहम् । अम्बिके नाथहीनन्तु पैत्र्यं वावरपादपम् ॥८४॥ तपनीयोद्भवैहम्यैः स्तम्भविद्र मसंप्रभः । क्वचित्स्फाटिककुण्डेश्च राजपट्ट मयैः दृढैः ॥८५॥ पुष्परागमयश्चान्यैः क्वचिद्वज्र सुसञ्चितैः । इन्द्रनीलमयश्चान्यः द्वारैमरवलयोजितैः ॥८६॥ कपाटः पद्मरागोत्थर्महानीलमयैः क्वचित् । द्वारश्चेवोपद्वारैश्च राजासनसुरञ्जितैः ॥७॥ वातायनोर्ध्वमार्गश्च तथा सोपानपंक्तिभिः । वाद्यहम्य॑मनोरम्यै नित्यं गन्धर्वसङ्कलैः ॥८॥ घण्टाचामरविन्यस्तैः किंकिणी-जाल-मण्डितै :। विन्यस्त वस्त्रसंघातरातपत्रवितानकैः ॥८६॥ मौक्तिकदाममालाभिः क्वचित् स्रग्दाममण्डितः । मन्दिरैर्मन्दराकारमयसद्भाव कल्पितः ॥६०॥ द्विसप्तभूमिकोपेतैः सुरम्यैः सौज्ज्वलैंग्रहैः । हेमजाकाररचिता प्रतोली गजमण्डिता ॥१॥ ध्वजमालाकुला दिव्याः सिंहद्वारस्तु शोभिता । विटंकोत्पल गोतुंगाः स्वर्गाद्रम्यतरा पुरी ॥२॥ नाथहीना महादेवी रौद्रा यमपुरीरिव । वरं मां च वनिता पतिमाश्रित्य संस्थिता ॥३॥ पतिहीना न शोभन्ते अम्बिके कल्पजीविता । अयुतं योजनानान्तु नन्दादेव्याः पुरी प्रिये ॥१४॥ कोटि कोटिभिः स्त्रीणान्तु समन्तात् पूरिता पुरी । चित्राम्बरधराः सर्वाश्चित्रगन्धानुलेपनाः ॥६५॥
१. ख पुस्तके नास्ति। ३. जेन्द्राक्षजम्बुरैः ग। ५. बधिर पादपम् क । धावत्पादम् ख। ७. किं कार्य प्रेतवत्गृह ख ।
२. नादितैः क । ४. नबनीफेण करैः काल क । ६. पंक्तित्रयं ख पुस्तके नास्ति । ८. पंक्तित्रयं ग पुस्तके नास्ति ।