SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३४२ विनवतितमोऽध्यायः समयाश्च कति प्रोक्ता मन्त्रोद्धारश्च कीदृशः । कीदृशं यजनं देव्या रुपकं चैव कीदृशम् ॥ एतत्सर्वं यथान्यायं कथयस्व प्रसादतः ॥६॥ ईश्वर उवाच । नन्दा देव्या पुरी रम्या भोगाद्या सुरवन्दिता' । वसन्ति तत्र वै कन्या सततं मदनातुराः ॥६२॥ पादपदा सदा पूज्यं नन्दाया वरवरिणनि । शोचयन्ति सदात्मानं नन्दाया अग्रतः स्थिताः ॥६३॥ अश्रुपातजलौघेन सोष्णेन तु वरांगनाः । नन्दाया पादपद्मौ तु अजस्र क्षाल यन्ति ताः ॥६४॥ कन्यका ऊचुः । कि कार्य जलक्रीडाया दोलाक्रीडनकेन किम् । उद्यानक्रीड़नर्वापि द्यूतक्रीडनकेन किम् ॥६५॥ पुस्तकवाचनेनापि काव्याख्यायिकक्रीडया। वीणा शास्त्रेण किं कार्य चित्रपत्रपरिच्छदैः ॥६६॥ उन्मत्तचेष्टितं सर्व पतिहीनं महातपे । मृदंगपटहै शब्दैवल्लकीपनवादिभिः ॥६७॥ नृत्यवादित्रकं सर्व पतिहीनं न राजते। वेणु वीणानिनादेन विपश्चिद्ध्वनिनादितः ॥६८॥ किम्वा लम्बूकवीणायां कार्य पिजलकेन किम् । व्याधितस्य यथाक्रन्दस्तद्वत् तोंर्ध्वनिः स्मृता।६६॥ अरण्यरुदितं सर्व विधवानां सुरेश्वरि । किं वा रूपेण कर्त्तव्यं कि कार्य यौवनेन च ॥७०॥ मकरीकरपत्रैश्च पयोधरकपोलयोः । ललाटतिलकैर्वापि विन्यस्तैः किं प्रयोजनम् ॥७१॥ को वा आगत्य मोऽस्मिन् यः परिष्वज्य मईयेत् । वस्त्रविलेपनदिव्यः स्रग्दाम भ्रमराकुलः ॥७२॥ मुकुटेश्चुटकर्वापि किम्वा ललाटपट्टिकैः । यद्वद्भित्तिषु चित्राणां मण्डनं तद्वन्निष्फलम् ॥७३॥ दयां कुरु सुराध्यक्षे नान्यस्त्राता सुरेश्वरि । एवं याचन्ति देवेशि भरि नन्दमन्दिरे ॥७४॥ उद्यानदीधिकापि प्रवालाङ कुर शोभितैः । क्याचित्स्फटिकसोपानैः क्वचिन्मरकत सञ्चितैः ॥७५॥ १. सुरांजिता क। ३. भूत क। ५. रन्ध्रध्वनिः क । ७. क पुस्तके नास्ति। ६. बारपनाह पट्टकैः ।। २. कन्या ऊचु: क। ४. बिनाशास्त्रेन क। ६. कपोलजः क । ८. चूतकैः ग। १०. मंडल तत्त्वनिष्फलम् ग। .
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy