________________
देवीपुराणम्
३३६
शृण्वन्तु देवताःसर्वा ये चान्ये च तपोधनाः । कथ्यमानां च तीर्थानां यथा देव्या प्रचोदितम् ॥१४॥ एवं श्रुत्वा तथा ब्रह्मा शिवस्य वचनं शुभम् । सर्वे चैवागतास्तत्र शिवस्य पुरतः स्थिताः ॥१५॥ अहोपूर्वाणि कथ्यन्ते सर्वे कौतुहलान्विताः । प्रागतस्ते समीपे तु देवासुरमहोरंगाः ॥१६॥ भावितात्मानश्च ते सर्वे हृष्टरोमा समुद्गताः । पार्वत्यास्तु प्रशंसन्ते ययेदं पृच्छितः शिवः ॥१७॥ माता देवासुराणाञ्च वन्द्या च परमेश्वरी । पशूनाञ्च हितार्थाय मोक्षार्थञ्च तपस्विनाम् ॥१८॥ पृच्छते च ततो देवी नन्दाशास्त्र सुदुर्लभम् । कोतुहलान्विता देव्या शृण्वन्तु शिवभाविता ॥१६॥ कृताञ्जलिपुटाः सर्वे सर्वे प्रणतमूर्तयः ॥२०॥
ईश्वर उवाच । हिमवत्यचले रम्ये नाना सिद्ध निषेविते । अप्सरोगणसंकीर्णे नानावृक्षसमाकुले ॥२१॥ किन्नरीगणसङ्कीर्णे ऋषयश्च तपोधनाः । नित्यं सेवन्ति तत्स्थानं पर्वतं भूधरेश्वरम् ॥२२॥
तस्मिन्पुण्यानि तीर्थानि गुह्यस्थानानि यानि च ।
अनिवर्तकानि चत्वारि तानि शृण्वन्तु देवताः ॥२३॥ भैरवं चैव केदारं तथा रुद्र महालयम् । नन्दादेवी चतुर्थं तु पंचमं नोपलभ्यते ॥२४॥ शिवतीर्थानि गुह्यानि कथितानि महीतले । अधुना सम्प्रवक्ष्यामि नन्दातीर्थस्य यत्फलम् ॥२५॥ यथा गंगा नदीनान्तु उत्तमत्वेन संस्थिता । तद्भगवती नन्दा उत्तमत्वे व्यवस्थिता ॥२६॥ नगेन्द्राणां यथा मेरुरुत्तमो वै व्यवस्थितः । तारकारणां यथा चन्द्रः प्रभुत्वेन महातपे ।
- तीर्थानाञ्च तथा नन्दा प्रभुत्वेन व्यवस्थिता ॥२७॥ ग्रहानाञ्च यथा भानुः प्रभुत्वेन व्यवस्थितः । तद्वत् क्षेत्रं महादेवी नन्दायाः परमेश्वरि ॥२८॥ खगेन्द्राणां प्रभुर्यद्वत् सुपर्णो अचलात्मजे । तद्वत् तीर्थ महादेवी नन्दायाः उत्तमं प्रिये ॥२६॥ फणीन्द्राणां यथा राजा वासुकिस्त्रिदशाचिते । तीर्थानामुत्तमं तद्वत् नंदाख्यं सुरसुन्दरि ॥३०॥
१. पाणि क। ३. नन्दाशब्दं क ख । ५. विद्याधर समाकुले क ।
२. कृष्णरम समुद्भवाः क ग । ४. शृण्वन्ति शिवभाषिता: क । ६. पद्यमिदं ख पुस्तके नास्ति ।