________________
त्रिनवतितमोऽध्यायः ।
- अगस्त्य उवाच । कैलाशशिखरे रम्ये नानाधातुविचित्रिते । अनेकाशिरवराकीणे गणगन्धर्वसेविते ॥१॥ सहस्रकिरणोपेते तप्तकाञ्चन भूषिते । देवताऋषिभिश्चैव सदासिद्ध निषेविते ॥२॥ विमान कोटिसंच्छन्ने वितानध्वज शोभिते । नृत्यन्ति तत्र वै केचित् केचिद्वदन्ति दुन्दुभिम् ॥३॥ गायन्ति गणगन्धर्वा नृत्यन्ति देवयोषितः । स्तोत्रमुदीरयन्त्यन्ये अन्ये विजयमंगलः ॥४॥ स्तुवन्ति भगवन्देवमृषयश्च महातपाः । चन्द्रादित्यग्रहाश्चैव तथा तारागणा अपि ॥५॥ ये चान्ये त्रिदशाः सिद्धा योगसिद्धा महामखैः । शक्राद्या लोकपालाश्च ब्रह्मविष्णुमरुद्गणाः ॥६॥ सर्वे वसन्ति 'तत्रैव दिव्यश्वर्यसमन्विताः । प्रणम्य प्राञ्जलिर्देवी इदं वचनमब्रवीत् ॥७॥ कौतुहलं महादेव उत्पन्नं मे महेश्वर । मर्त्यलोके महादेव गुप्तस्थानानि कथ्यताम् ॥८॥ कथयस्व प्रसादेन लोकानां हितकाम्यया । अनिवर्तकानि तीर्थानि गुह्यस्थानानि मे प्रभो ॥६॥ तन्मे ब्रूहि सुरेशान यद्यहं तव वल्लभा । श्रोतुमिच्छाम्यहं प्रश्नं नन्दादेव्या महात्मना ॥१०॥ कथं देव प्रविष्टोऽसौ हिमवंते महागिरौ। तीर्थयात्राफलं देव कीदृशं भवति प्रभो ॥११॥ अनिवर्तकानि मार्गानि कुण्डप्रवेशमेव च । प्रसीदति यथा देवी सुकृतेनेह कर्मणा ॥१२॥
नरके पच्यमानानां नराणां परमेश्वर ।
__ईश्वर उवाच । शृणुदेवि प्रवक्ष्यामि यथा देवी व्यवस्थिता ॥१३॥
१. शिवालये तु कैलाशे क। ३. देवयोनयः ग । ५. नमन्ति ग; ७. दण्डप्रवेशम् ग।
२. वादन्ति वस्तुभिः क । ४. महाभैरव क । ६. महाविभो क। ८. जन्मना क ख।