________________
त्रिनवतितमोऽध्यायः
ऋषीणां च यथा वन्द्यः कश्यपो भृगुरेव च' । नन्दातीर्थं महादेवी वन्द्यं पुण्यं च कीर्तितम् ॥ ३१ ॥ योषितानां यथा भद्र राज्ञी त्वं सुरनायकि । देवतानामहं देवि 'नन्दातीर्थं तथा प्रिये ॥ ३२ ॥ तस्मात् किं बहुनोक्त ेन वणितेन पुनः पुनः । मोक्षस्थानं यथा देवि अनौपम्यं सुराच्चिते ॥ ३३॥ अनौपम्यं तथा तीर्थं नन्दाख्यं परमेश्वरि । पृथिव्यान्तु स्थितो वापि नन्दादेवीं प्रकीर्त्तयेत् ॥ ३४॥ मुच्यते सर्वपापेभ्यो यः स्मरेद्भावितात्मनः । नन्दास्थानं नराः प्राप्य न प्राकृत मानुषाः ॥३५॥ ये ब्रजन्ति च तत्रैव श्रनिवर्त्तपथे स्थिताः । अश्वमेधफलं तेषां नराणां तु पदे पदे ॥३६॥ ये मृतास्तु पथे देवी कुण्डे वा नरपुंगवाः । न तेषां विद्यते मयें पुनरागमनं प्रिये ॥ ३७ ॥ सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । सर्वदानेषु यत्प्रोक्तं तपश्चान्द्रायणादिभिः ॥ ३८ ॥ कोटि कोटि गुरणं कृत्वा यत्पुण्यं सकलं भवेत् । नन्दा सन्दर्शनाद्देवि भवते सुविचारणात् ॥३६॥ Soyara |
श्रश्वमेधं महायज्ञं तपश्चान्द्रायणादिकम् । देव्याः संदर्शनेनाथ व्यर्थमेतत्तथागमाः ॥४०॥ परमेश्वर उवाच ।
न भयं नैव लोभो मे स्नेहो वा सुरवन्दिते । अज्ञत्वं वाथ दीनत्वं येनाहमनृतो ध्रुवम् ॥४१॥ तपोयज्ञेषु देवानां सन्तर्पणविधिर्मतः । ते च ब्रह्मादयो भद्र े तैस्तु नन्दा प्रतिष्ठिता ॥ ४२ ॥ योऽसावनादिमध्यान्तः शिवः शक्तिमयः परः । तस्येयं परमा नन्दा सर्वकिल्बिषनाशिनी ॥४३॥ तत्प्रभावेन प्राप्नोति तपो यज्ञादिकं फलम् । मंत्राणां देवशक्तीनां न विचारो वरानने ॥ ४४ ॥ कालिका हास्यवाक्यानि ग्रहभूतविषापहाः । एवं कलियुगे घोरे यस्मिन् देहान्तरा नराः ॥४५॥ भुञ्जन्ति' 'दर्शनात्कन्या तस्य किं तपसादिकम् । श्रश्वमेधादिकं भद्र े येन त्वं विस्मयं गता ॥ ४६ ॥ अंगुष्ठोदरमात्र ेण बोदुर्यन्मणिना फलम् । न तत्सहस्रपाषाणान् वहनं प्राप्नोति मानव ' ११ ॥४७॥
३४०
१. यथागस्त्यः काश्यपो मृगुरेवच ग ।
३. प्रकृतिमानवाः क ।
५. ह्यविचारणात् ग ।
६, ऋषभो ध्रुवम् ख ।
८. कौलिका हास्यवाक्यानि क ग ।
१०. भुञ्जते दर्शना: कन्या: क ।
२. देवतानां महा देबि क ।
४. सफलम् के ख ।
७. नाशनम् क।
६. देह; समानवः क ।
११. सुन्दरि क ग ।